________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४३४
चरक-संहिता। [ज्वरचिकित्सितम् प्रधानश्च गुरुमधुरादिसेवमानस्य कफबलाल्लब्धबलस्तथा स्यात्। तथा वातप्रधानः सन्ततादिर्यदि मधुराम्लगुळदिसेवमानस्य वायोर्दबलाद्धीनबलः सततादिः स्यात्। पित्तप्रधानस्तु तिक्तमधुरकषायादिसेवमानस्य पित्ताल्पबलाद्धीनबलस्तथा स्यात् एवं कफप्रधानश्च कटतिक्तकषायादिसेवमानस्य कफाल्पबलाद्धीनबलस्तथा स्यात्। मनसश्चेति पृथकपदकरणात् मनसो बलायाधेरबलत्वं मनसस्त्वबलात् व्याधेबलवत्त्वं हि विषादो रोगवर्द्धनानाम् इत्युक्तेः। न तु ऋखादर्बलाप्राधिवलम् अवलाद्वबाधेरवलमिव मनसो बलाबाधिवलमबलानाधेरवलमिति ख्यापितम्। तथाच सन्ततादिज्वरी यदि धनबन्धुपुत्रपौत्रादिनानाहकरभावेणातिप्रमोदितचित्तः स्यात् तदा मनसः प्रबलखात् सततादिज्वरी स्यात् यदि धनवान्धवपुत्रपौत्रादिविनाशादिविविधदुःखकरभावेण विषण्णचित्तः स्यात् तदा चातुर्थकादिज्वरी तृतीयकादिज्वरी स्यान्मनसो दुर्बलखात्। एतेन बुद्धेवलादपि सन्ततादिः सततादिभावम् आपद्यते। बुद्धेबले हि जाते प्रापराधो न स्यात्, तदा बलिमङ्गलदानस्वस्त्ययनपूजोपहारदेवगुरुद्ध सिद्धर्षीणां भेषजानाञ्चोपसेवा भवति। बुद्धेरबलात् तु तद्विपरीतसेवनं भवति तेन चातुर्थकादिस्तृतीयकादिभावमापद्यते इति लभ्यते । मनःस्था हि बद्धिविद्याविद्यात्मिका।
अथवशात् पूच्चकृतकम्पपरिणामादपि सन्ततादिः सततादिभावमापद्यत चातुर्थकादिस्तृतीयकादिभावमापद्यते। तद् यथा सन्ततादिज्वरिणो यदि सततादिज्वरकरकर्मपरिणामः स्यात् तदा सन्ततादिज्वरी सततादिज्वरी स्यात् । यदि च चातुर्थकादिज्वरी तृतीयकादिज्वरकरकर्मपरिणाममापद्यते तदा तृतीयकखादिमापद्यते इति। यद्यपि सर्वत्रैव कर्मपरिणामो हेतृस्तथापि यत्र कारणान्तराभावे सति कार्य भवति तत्रैव कर्मत्वं निर्दिश्यते न तु सर्वत्रेति। अथैपां सन्ततादीनां दोषाक्तदेहेऽपि तत्कालनियमे हेतव उत्पत्तौ च दोषा उक्ताः सुश्रुतेन यथा। “परो हेतुः स्वभावो वा विषमे कैश्चिदीरितः। आगन्तुश्चानुवन्धो हि प्रायशो विषमज्वरे॥" इति । “वाताधिकत्वात् प्रवदन्ति तज्ज्ञास्तृतीयकश्चापि चतुर्थकञ्च। औपत्यके मद्यसमुद्भवे च हेतु ज्वरे पित्तकृतं वदन्ति। प्रलेपकं वातबलासकञ्च कफाधिकत्वेन वदन्ति तज्ज्ञाः। मूर्छानुवन्धा विषमज्वरा ये प्रायेण ते द्वन्द्वसमुत्थितास्तु ।” इति। एवमन्येऽपि विषमज्वरा उक्ताः। “वस्थौ श्लेष्मानिलौ शीतमादौ जनयतो ज्वरे। तयोः प्रशान्तयोः पित्तमन्ते दाह
For Private and Personal Use Only