SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३य अध्यायः ] चिकित्सितस्थानम् । २४३३ दोषमनसां बलात् प्रबलः सन् पूव्वपूव्वप्रबलज्वरकालं प्राप्नोति, तेन च स एव ज्वर उच्यते तथाकालत्वात् । ऋत्वादीनामबलात् तु क्रमेण ह्रासमानोति उत्तरोत्तरदुब्बैलज्वरकालं प्रपद्यते, तदा च स एव ज्वर उच्यते तथाकालत्वात् । एवं सन्ततः प्रबलः स पुनरतिबलः स्याद्यत्वादिबलात् सर्व्व पूर्व्वखात् । चतुर्थ कस्तु दुब्बलो ज्वरः सर्व्वान्त्यत्वाद्यत्वाद्यबलादतिदुब्बलो वा नष्टो वा स्यात् । एवं सति वातप्रधानो यचातुर्थको वा तृतीयको वाप्यन्येदुष्को वा सततो वा स प्रावृट्कालं प्राप्य लब्धबलः पूव्वपूर्व्वज्वरत्वमापद्यते, पित्तप्रधानस्तु शरत्कालं प्राप्य लब्धबलस्तथा स्यात्, कफप्रधानस्तु वसन्तं प्राप्य लब्धबलस्तथा स्यात्, सततस्त्वतिबलः स्यात् । तथान्यत्तषु च दोषमनुसृत्य बोध्यम् । एवं यदि वातप्रधानः सन्ततो वा सततो वान्ये ष्कस्त्तुतीयकश्च वत्तते, तदा स स शरदं वा वसन्तं वा प्राप्याल्पबलः सन् सततादीनां कालमापद्यते, पित्तप्रधानस्तु वसन्तं वा हेमन्तादिकं वा प्राप्याल्पबलः संस्तथा स्यात्, कफप्रधानस्तु ग्रीष्मं वा शरदं वा प्राप्याल्पवलस्तथा स्यात् । चतुर्थकश्चेदवम् अतिक्षीणो वा नष्टो वा स्यादिति । अथाहोरात्रवलात् चतुर्थकादिस्तृतीयकादिभावमापद्यते । अहोरात्रस्यावलात् सन्ततादिः सततादिभावमेति । तद् यथा रुक्षोष्णगुणे कुपितवातप्रधानो यदि चातुर्थकादिः वर्त्तते तदा स स ग्रीष्मस्यर्त्तारो वालधवलस्तृतीयकादिभावमापद्यते । शीतगुणे कुपितवातजस्तु बलहीनः स्यात् पित्तप्रधानस्तु शरहत्वहोरात्रबलाल्लब्धबलस्तथा स्यात्, कफप्रधानस्तु हेमन्तवसन्तवहोरात्र व लाल्लब्धबलस्तथा स्यात्, सन्ततश्चातिवलः स्यात् । तथा सन्ततादिर्वातप्रधानस्तु शरवसन्ताहोरात्रस्य अवलाद्धीनवलः सततादिभावमापद्यते । पित्तप्रधानस्तु शीतत्त्वहोरात्रा बलाद्धीनवलस्तथा स्यात् । कफप्रधानश्च ग्रीष्मेऽहोरात्राबलाद्धीनवलस्तथा स्यात् । अहोरात्रस्तु कतिपय एव गृह्यते न ह्य कैकस्याहोरात्रस्य बलाबलाभ्यां बलाबले स स भवति, भवति च यत्किश्चित् ततो नान्यत्वमापद्यते तत्तद्बलावले च भवतः । अथ वातप्रधानो यदि चातुथकादिवत्तते तहि व्यायामापतपणरुक्षलध्वादिनिदानानि सेवमानस्य वातबलाल्लब्धवलस्त्ततीयकादिभावमापद्यते । पित्तप्रधानश्च कटुम्लादिसेवमानस्य पित्तवलाल्लब्धबलस्तथा स्यात् । कफतत्र ऋतुबला यो वर्षाभूतश्चतुर्थकः, स शरदं प्राप्य बलवान् तृतीयकादिर्भवति ; अर्थवशादिति कम्मवशात् यथोक्तदिने च ज्वरयतीति ब्रुवते ॥ ३७ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy