________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४३२
चरक-संहिता। [ ज्वरचिकित्सितम् ऋत्वहोरात्रदोषाणां मनसश्च बलाबलात् ।
कालमर्थवशाच्चैव ज्वरस्तं तं प्रपद्यते ॥ ३७॥ न चान्येदुरष्क-तृतीयकविपय्ययौ। स्वल्पदीघकालव्यापकतन्तु निदान विशेषेण बलस्य न्यनाधिक्याद् भवतीति भावः। कश्चिच्च सौश्रुतं व्याचष्टे,आमाशयहृदयस्थो दोषभागोऽन्येदुरष्कविपर्ययम्, आमाशयहृदयकण्ठस्थः तृतीयकविपर्ययम्, आमाशयहृदयकण्ठशिरःस्थश्चतुर्थकविपय्येयं कुरुते । तत्रामाशयस्थो भागोऽनुत्कर्षबलान ज्वरयति । हृदयस्थो दोषभाग आमाशयमागत्य ज्वरयति। एक दिनं न भूखा परदिने भवतीति अन्येदुरष्कविपर्ययः । एवम् आमाशयहृदयकण्ठस्थानां दोषभागाणामामाशयस्थो भागस्तथैव न ज्वरयति। हृदयस्थभागस्तु एकदिनमामाशयमेत्य ज्वरयति, कण्ठस्थश्च हृदयमेति परदिने च स भागो हृदयादामाशयमेत्य ज्वरयतीति दिनद्वयं भूखा एकदिनं न भवति । एवम् आमाशयहृदयकण्ठशिरःस्थानां दोषभागाणामामाशयस्थो भागस्तथैव न ज्वरयति। हृदयस्थश्वामाशयमेत्य ज्वरयति कण्ठस्थश्च हृदयमेति शिरःस्थः कण्ठमेति, ततः परदिने हृदयादामाशयमेत्य कण्ठस्थभागो ज्वरयति, कण्ठस्थश्च हृदयमेति । ततः परदिने स भागो हृदयादेत्यामाशयं ज्वरयतीति दिनत्रयंभूत्वैकदिनं न भवतीति चातर्थकविपर्ययश्चरकोक्तचातुर्थकविपय्येयानैक्यवाक्यः। तृतीयकविपर्ययश्च चरकोक्तचातुर्थकविपय्येयकवाक्यः स्यात् । आमाशयस्थदोषभागेण च ज्वरोत्पत्तिश्च द्वितीयादिभागैरिवेति। तत्रान्तरे त "अस्थिमज्जोभयगते चातुर्थकविपर्ययः। मध्ये अहनी ज्वरयत्यादावन्ते च मुञ्चति ॥ तथा पराशरोऽपि “अस्थिमज्जोभयगते चातुर्थक विपर्ययः। ऋग्रहाद् द्वग्रहं ज्वरयति आदावन्ते च मुञ्चति ॥” इति तव्याख्या न साध्वी ॥३६॥
गङ्गाधरः-एषाश्च ज्वराणां हेवन्तरतो लब्धबलत्वे पूर्वपूर्वबलवज्ज्वरत्वं सम्पद्यते, तदाह---ऋत्वहोरात्रेत्यादि । सन्ततादिज्वरपञ्चकान्यतमस्तु ज्वरः अर्थवशात् तस्य पुरुषस्य प्राक्तनकर्मवशात् ऋत्वहोरात्रदोषमनसां बलाबलात् तं तं बलवदबलवज्ज्वरस्य कालं सप्ताहाद्यादिरूपं चतुर्थाहादिकञ्च प्रपद्यते। तथा हि सन्ततादयः पञ्च उत्तरोत्तरं दुर्चलाः, तत्र दुर्बलो यो ज्वरः स ऋत्वहोरात्र
चक्रपाणिः-सम्प्रति सन्ततज्वर एव यथा सततकादिरूपो भवति, तथा सततकादयः सन्ततादिरूपा भवन्ति, तदाह - ऋत्वहोरात्रेत्यादि। बलाबलादिति मनोऽन्तेन सम्बध्यते, बलञ्चाबला बलाबलम् ; ऋत्वादीनां बलात् तथा ऋत्वाद्यबलाज्ज्वरस्तं तं सततादिज्वरोक्तं कालं प्रतिपद्यते,
For Private and Personal Use Only