________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४३६
चरक-संहिता। [ज्वरचिकित्सितम् रक्तोत्था पिड़का तृष्णा सरक्तं ष्ठीवनं मुहुः। दाहरागभ्रममदाः प्रलापो रक्तसंस्थिते ॥ ३६॥ अन्तर्दाहोऽधिकस्तृष्णा सग्लानिः ॐ सृष्टविटकता। दौर्गन्ध्यं गात्रविक्षेपो ज्वरे मांसस्थिते भवेत् ॥ ४०॥ स्वेदस्तीत्रः पिपासा च प्रलापारत्यभीक्षणशः +। सगन्धास्यासहत्वञ्च मेदःस्थे ग्लान्यरोचकौ ॥ ४१ ॥
अरुचिश्चाविपाकश्चेत्यादीन्यधिकानि लक्षणानि तथा गुरुत्वादीनीमानि रसस्थदोषज्वरलक्षणानि तथा वातादिदोषलक्षणानि भवन्ति यथावलं रसदोषामरसानाम् । निरामत्वे तु रसस्य दुष्टस्यमानि गुरुखादीनि वातादिदोषलक्षणानि च भवन्ति। तत्र यदि रसमुत्क्रस्य दोषा रक्तं दृषयन्ति तदा रक्तोत्था पिड़केत्यादीनि लक्षणानि दोपलक्षणानि च भवन्ति, यदि वा मांसादिकं दूषयन्ति तदान्तर्हाहादीनि दोपलक्षणानि च भवन्तीति निष्कर्षः। गुरुत्वं गात्रस्य शीतच। उद्वेगश्छद्दे व गस्तेन च मनस उद्वेगश्च दैन्यमिति यावत् । रसस्य हृदयस्थत्वेन हृदयोत्क्लेशस्यान्यत्र तन्त्रे दर्शनात् । रसस्थिते इति ज्वरे इत्युक्ते सर्वत्र रसालाभात् तद्वग्रावर्तनाय कश्चित् तु सर्वत्रैव ज्वरे रसदृषणे सत्यप्येतद्वचनं विशेषतो रसदुष्टिख्यापनार्थमित्याह। विज़म्भणमिति विशिष्टज़म्भा, न तु वातमात्रजवेगवती जम्मा ॥३८॥
गङ्गाधरः-रक्तोत्थेत्यादि। रक्तोत्था न तु पित्तादुत्था ॥३९॥
गङ्गाधरः-अन्तर्दाह इत्यादि पिण्डिकोद्वेष्टनञ्च बोध्यं तन्त्रान्तरदर्शनात् । तन्त्रान्तरे च वहिरुष्णा व्याख्यायते तन्न मांसस्याभ्यन्तरखात् तद्गतदोषस्य अन्तरेव दाहकरत्वानुभवात् ॥ ४०॥
गङ्गाधरः-स्वेद इत्यादि मेदःस्थस्य। तीवः स्वेदो भृशस्वेदः। प्रलापश्च अरतिश्च तत् समाहारखादेकवचनम्। सगन्धास्यश्चासहत्वञ्च तत्, असहत्वम् असहिष्णुता ॥४१॥
* अन्तर्दाहः सतृण्मोहैरिति पाठान्तरम् । + प्रलापो वम्यभीक्ष्मशः इति वा पाठः ।
For Private and Personal Use Only