________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४२८
चरक-संहिता। { ज्वरचिकित्सितम् चतुर्थको दर्शयति प्रभावं द्विविधं ज्वरः।
जकाभ्यां श्लैष्मिकः पूर्व शिरस्तोऽनिलसम्भवः ॥३४॥ व्यापनकाले खनतिप्रकुपितवस्वभावाच्च पूर्व परस्थान त्रिके एव स्वभावं दर्शयति, ततः सर्वाङ्ग एव सव्वत्र बोध्यम् ॥३३॥
गङ्गाधरः-तृतीयकस्य विधामुक्त्वा चातुर्थकस्य विधामाह-चतुर्थक इत्यादि। द्विविधमिति तृतीयकस्य स्वभावात् त्रैविध्यमिव चतुर्थकस्य द्वैविध्यं बोध्यम् । जङ्घाभ्यामिति इलैष्मिकः श्लेष्मोल्वणत्रिदोषजः एकश्चतुर्थकः। स श्लैष्मिकः कुतोऽनुमीयते इत्यत आह-जवाभ्यामिति । पूर्व जवाभ्यां ट्रे जङ्घ पूर्व वेदनया गृहीखा पश्चात् सर्लाङ्ग व्यामोति। जङ्घा च वातस्थानम् । एवं शिरस्तोऽनिलसम्भव इति वातोल्वत्रिदोषजश्चतुर्थकः। नन्वयं कुतोऽनुमीयते इत्यत आह-शिरस्त इति । अत्रापि ल्यक्लोपे पश्चमी। तेन शिरः कफस्थानं पूर्व वेदनया गृहीखा सङ्गि व्यामोताति द्विविधं व्याधिस्वभावात् प्रभावं खकर्म दर्शयति। न खन्यथा रूपमधिकविति। अत्रापि पूर्ववत् सव्वं कफस्थाने व्यवस्थितत्वेन जङ्घादिगतबादिकं व्याख्यातव्यम्। ननु पैत्तिकश्चतुर्थकः किं न स्यात् ? न स्यादतो नोक्तः । नागभर्तृतन्त्रे तु “जट्ट कायन्तु यः पूर्व गृह्णाति सोऽनिलात्मकः । मध्यकायन्नु गृह्णाति पूर्व यस्तु स पित्तजः। पूर्व गृह्णात्यधःकायं श्लेष्मदृद्धश्चतुर्थकः ॥” इति। अत्र कश्चिद्वप्राचष्टे कफवातोवणाभ्यां चतुर्थकद्वैविध्यं भवति, पित्तोल्वणस्तु कचिद्भवति न त्वेकान्तत इति प्रायशोऽसम्भवात् पैत्तिको नोक्तश्वरकहारीतभेलः। हारीतस्तु "चतुर्थको नाम गदो दारुणो विषमज्वरः। शोषणः सर्वधातूनां बलवर्णाग्निनाशनः । त्रिदोषजो विकारः स्यादस्थिमज्जगतोऽनिलः। कुपितं पित्तमेवन्तु कफश्चैवं वकालतः। शीतदाहकरस्तीव्रत्रिकालश्चानुवर्तते। सन्निपातात् तु सम्भूतो विषमो विषमज्वरः। ऊद्ध कायन्तु गृह्णाति यः पूर्वं सोऽनिलात्मकः । पूर्व गृह्णात्यधःकायं श्लेष्मद्धश्चतुर्थकः ॥” इति ऊ कायादिवत् पित्तजस्य स्थानानुक्तखात् पित्तानुबन्धत्वेन दाहकरखमित्यन्ये व्याचक्षते। तच्च न साध्विति कश्चिदुल्वणपित्तलिङ्गदर्शनात् मध्यकायञ्च पित्तस्थानम् भेलदर्शनाच्च । भेले हि "आमाशयस्थः पवनो ह्यस्थिमज्जगतोऽपि वा। कुपितः पृष्ठग्राहीत्यर्थः, किंवा पृष्टादिति ल्यबलोपे पञ्चमी, तेन पृष्ठमधिष्ठायेत्यर्थः। जङ्घाभ्यां पूर्वमिति जङ्घयोः प्रथमं पीड़ां करोति । अव च न पित्तप्रधानः पैत्तिकश्चतुर्थकः पित्तगृध्रसीवद् भवत्येव
For Private and Personal Use Only