________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
चिकित्सितस्थानम् । २४२६ विषमज्वर एवान्यश्चातुर्थकविपर्ययः । त्रिविधो धातुरेकैको द्विधातुस्थः करोति यम् ॥३५॥ प्रायशः सन्निपातेन दृष्टः पञ्चविधो ज्वरः। सन्निपाते तु यो भूयान् स दोषः परिकीर्तितः॥३६॥
कोपयत्याशु श्लेष्माणं पित्तमेव च” इति सम्प्राप्तिनं तु विधावचनं दृश्यते । इति सन्ततादिषु पञ्चसु ज्वरेषु मध्ये तृतीयकचातुर्थकयोः प्रभावविधाप्रदर्शनेन सन्ततसततान्येदुरष्काणां त्रयाणां प्रभावविधा नास्ति स्वस्वस्वभावादिति शापितम् ॥३४॥
गङ्गाधरः-ननु सन्ततादिपञ्चविधज्वरादप्यतिरिक्तज्वरो विपर्यायचातुर्थको दृश्यते तत् कथं पञ्चविधो दृष्ट इत्युक्तमित्यत आहविषमज्वर एवान्य इत्यादि। अन्यश्चातुर्थकविपय्येयो ज्वरः पञ्चविधात् ज्वरादन्योऽपि विषमज्वर एव विषमवसामान्याद् विषमाख्य एव, न तु क्रमेण रसादिपञ्चधातुगतत्रिदोषजवसामान्यात्। ननु तहि चातुर्थकविपय्ययं किंधातुस्थो दोषः करोतीत्यत आह-त्रिविध इत्यादि। यं ज्वरं द्विधातुस्थोऽस्थिमज्जोभयातुस्थ एकैको वातः पित्तं कफश्चेति प्रत्येक धातुर्न तु मिलितः सन् करोति। यस्मादस्थिमज्जगताद वातादेकोऽस्थिमज्जगतात् पित्तात् द्वितीयः अस्थिमज्जगतात् कफात् तृतीयो विपर्ययचातुर्थको भवति, तस्माद विषम एव वैषम्यसामान्यात् पश्चभ्योऽन्य एव च ॥३५॥
गङ्गाधरः-ननु कुतोऽन्यस्तेभ्यः पञ्चभ्यस्तेऽपि हि पञ्च च ज्वराद्य कैकदोषजा विषमाश्चेत्यत आह–प्रायश इत्यादि। पञ्चविधः सन्ततादिज्वरः 'भिधानात् इति मन्तव्यम् । हारीते तु पित्तजन्यत्वं यदुक्तं तदनुबन्धरूपपित्तजन्यत्वं प्रभावाकर्तृत्वान्न हि चतुर्थकप्रभावाभ्युपगमविरोधि ॥ ३३ ॥ ३४ ॥
चक्रपाणिः-सम्प्रति मध्ये अहनी ज्वरयत्यादावम्ते च यो मुञ्चति, स चातुर्थकविपर्ययत्वेन चातुर्थकग्रहणगृहीत एवेति दर्शयन्नाह-विषम इत्यादि। विविधो धातुरिति वातादिः । द्विधातुस्थ इति अस्थिमजगतः। अयञ्च विषमज्वर एवेति सामान्येनोक्तम्, तथापि चातुर्थकस्य प्रकाररूपविषमज्वर एवेति मन्तव्यम् । अव तन्वान्तरम् - "अस्थिमजगतश्चान्यश्चातुर्थकविपर्ययः। यहाद् द्वयह ज्वरयति आदावन्ते च मुञ्चति ॥” इति ॥ ३५॥ चक्रपाणिः-चतुर्थकविपर्ययेण संयुक्तपञ्चविधज्वराणां समानं धर्ममाह-प्रायश इत्यादि ।
३०५
For Private and Personal Use Only