________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः |
चिकित्सितस्थानम् ।
स वृद्धिं बलकालञ्च प्राप्य दोषस्तृतीयकम् । चतुर्थकञ्च कुरुते प्रत्यनीकं बलक्षयात् ॥ कृत्वा वेगं गतबलाः श्लेष्मस्थाने & व्यवस्थिताः । पुनर्विवृद्धाः वे काले ज्वरयन्ति नरं मलाः ॥ ३२ ॥
For Private and Personal Use Only
२४२५
स्वस्व
तृतीयक चतुथकयोरसाध्यत्वमाह स वृद्धिमित्यादि । स तृतीयकारम्भको दोषः स्वस्य बलकालं प्राप्य वृद्धिश्च प्राप्य तदा आतुरस्य बलक्षयात् प्रत्यनीकं नाशकं तृतीयकं कुरुते । एवं चतुर्थकारम्भकश्च दोषः स्वबलकालं प्राप्य वृद्धिञ्च प्राप्य तदा आतुरस्य बलक्षये सति चतुर्थकं प्रत्यनीकं तदातुरस्य मारकं कुरुते इत्यर्थः । द्विकालादिनियमेन ज्यरवेगकरणे उपपत्त्यन्तरमाह - कृत्वेत्यादि । निदानविशेषर्जनितकोपविशेषेण जातस्वभावविशेषा मला दोषाः श्लेष्मस्थाने आमासये हृदये कण्ठे शिरसि च व्यवस्थिताः सन्तो यथाक्रमं द्विकालमेककालं दिनैकं क्षिप्त्वा एककालं, दिनद्वयं क्षिप्त्वा एककालं वेगं कृत्वा क्रमेणामाशयं प्राप्य ज्वरं कृत्वा कृतवेगवात् तद्दिनमेव पुनः स्वस्थानं गत्वा च गतबला हीनबलाः सन्तो वै तत्र वर्त्तन्ते, पुनश्च स्वभावात् विवृद्धाः सन्तः स्वे काले प्रतिदिनज्वरं करोति दोषः, तदा तृतीयकचतुर्थकयोः किमिति विश्रामदिनेऽपि दोषानुगुणे पूर्वाह्नादिकाले न करोतीत्याह स वृद्धिञ्चत्यादि । न केवलं कालमातमपेक्षते, किन्तु वृद्धिमप्यपेक्षते तृतीयकादिकरणे दोषः । सा च वृद्धिस्तृतीयके तपण, चतुर्थके चतुरहेणैव भवतीति भावः । प्रत्यनी - कस्य कलाकृत्यादेर्दोपविरुद्धस्य बलक्षयः, तेन दोषवृद्धया यदा प्रत्यनीकस्य क्षयो भवति, तदा ज्वरयतीत्यर्थः ।
1
अथ सततकादी यथा वृद्धो दोषो ज्वरवेगं जनयति, तस्य यथोपशमो भवति, तदाहकृत्वत्यादि । ततादौ दोषा वेगं कृत्वा गतबला भवन्ति, गतबलाश्च पुनः स्वे स्वे रक्तादौ स्थाने स्थिता भवन्ति, पुनस्त एव वृद्धाः स्वे काले ज्वरयन्ति । अत्र च ऋत्वादिहेत्वन्तरे रक्तादिधातूनामुत्तरोत्तरं गत्वा दोषो यदा सूक्ष्मस्त्रोतांसि याति तदा तदाश्रयिज्वरो ज्वरपरावृत्तिश्व भवति । ऋतुबलाद् यथा - वातोत्तरसततको वर्षाकालज: प्रत्यनीकां शरदं प्राप्यान्येनष्कादिरूपो भवति । अहोरातबलाबलात् कालविशेषप्राप्तिर्यथा - वसन्तस्य मध्येषु अहोरात्रेषु वातिकश्चातुर्थको जातो यः, स वसन्तस्य पश्चिमान्यहोरात्राणि प्राप्य बलवान् तृतीयकादिरूपो भवति, तथोक्तदिनेष्वेव लैष्मिकः सततको जातः शेषदिनेषु श्लेष्मप्रत्यनीकेषु अन्येष्कादिरूपो जायते । दोषबलाद्दुरहेतुसेवाभूतात् ज्वरपरावृत्तिश्च व्यक्तैव । मनोबलात् सततज्वरो मनोनिवृत्त्यादिना
स्वे स्वे स्थाने इति पाठान्तरम् ।