________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४२४
चरक-संहिता। (ज्वरचिकित्सितम् संश्रितो मेदसो मार्ग दोषश्चापि चतुर्थकम् छ । दिनद्वयं यो विश्राम्य प्रत्येति स चतुर्थकः ॥३१॥ अधिशेते यथा भूमि वीजं कालेऽवरोहति।
अधिशेते तथा धातून् दोषः कालेऽवकुप्यति ॥ मेदोगतस्तृतीयेऽह्नि इत्युक्तमत्र तु मांसस्रोतस्यनुगत इत्युक्त्या विरुध्यते इति चेन्न। मांसस्रोतोऽनुगतेन दोषेणानन्तरमेदोवह सिरारोधस्तु तसिरापय्येन्तगतिं विना कर्तुं न शक्यते इति मेदोधातुप्राप्ताभिप्रायेण मेदोगतस्तृतीयेऽहीति सुश्रुतवचनात् ॥३०॥ . गङ्गाधरः-क्रमिकखाचतुर्थकज्वरमाह- संश्रित इत्यादि। मेदसो मार्ग स्रोतः संश्रितो दोषश्चतुथकं ज्वरं जनयेत् । चकारात् अस्थिमज्जगतोऽपि दोषश्चतुर्थकं जनयेत्। स चतुर्यको बहूपद्रवकरः स्यात् । उक्तं हि मुश्रुतेन"अस्थिमज्जगतः पुनः। कुय्योच्चातुर्थकं घोरमन्तकं रोगसङ्करम्” इति। मेदःस्रोतोगतस्तु न चान्तकं रोगसङ्करं चतुर्थकं जनयेदित्यतो मेदोगतो नातिप्रकुपितदोषस्तु यं चतुर्थकं जनयति स नातिकष्ट इति बोध्यम् । ननु चतुर्थकः कीदृशः स्यादित्यत आह-दिनद्वयमित्यादि। यो ज्वरो दिनद्वयं विश्रम्य न भूखा प्रत्येति पुनरागच्छति स चतुर्थकः ॥३१॥ । गङ्गाधरः-ननु कथं शरीरे सर्वदा अवस्थितत्वेऽपि दोषाणां द्विकालादिप्रवर्तकत्वं स्थादित्यत आह-अधिशेते इत्यादि। वीजं यथा भूमिमधिशेते न च तदैव सर्वदैव वावरोहति परन्तु काले कालपरिणामेऽवरोहति तथा दोषोऽपि विचित्रतन्निदानकुपितो धातून रक्तादीन् अधिशेते न च तदा सर्वदा वा कुप्यति परन्तु काले स्वस्वकालपरिणामेऽवकुप्यति प्रतिकुप्यति । रोधात् स्थानस्थाश्चैव मार्गगाश्च दोषाः प्रकोपमापद्यन्ते” इति। 'मांसस्रोतांस्यनुगतः' इत्यादि तृतीयचतुर्थकलक्षणं केचित् पठन्ति ; अवापि स्रोतोदृष्टया धातुदृष्टिरवगन्तव्या। ये तु तृतीयकचतुर्थकयोर्दू ग्यप्रतिपादक ग्रन्थं न पठन्ति, तेषां तन्वान्तरप्रत्ययाद् दृष्यावरोधः ; तृतीयकचतुर्थकसंज्ञयैव तृतीयदिनचतुर्थदिनभावित्वं ज्ञेयम् ॥ २८-३१ ॥
चक्रपाणिः-ज्वराणां विच्छेदाभ्यासे दृष्टान्तमाह-अधिशेत इत्यादि। अधिशेत इत्यधिष्ठाय तिष्ठति । धातुमिति सततकादिदूष्यत्वेन परितं रक्तादिधातुम् । काल इति स्वकाले। यदि स्वकाले
* इतःपरम्-अस्थिमजोभयगतो जनयेत् तु सुदारुणम् इत्यधिकः पाठः क्वचिद् द्दश्यते ।
For Private and Personal Use Only