________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः]
चिकित्सितस्थानम् । २४२३ अन्येदुरष्क ज्वरं कुर्य्यादपि संश्रित्य शोणितम् । अन्येदुरष्क ज्वरं दोषो रुद्धा मेदोवहाः सिराः ॥ सप्रत्यनोकं जनयत्येककालमहर्निशम् । अन्येदुरष्कः प्रतिदिनं दिनं क्षिप्त्वा तृतीयकः ॥ २६ ॥ नातिप्रकुपितो दोष एककालमहर्निशम् । मांसस्रोतस्यनुगतो जनयेत् तु तृतीयकम् ॥३०॥
गङ्गाधरः-ननु कस्मात् कालाद्यन्यतमाद् बलं प्राप्यैव द्वौ कालानुवर्तते, कालादितो बलहीनत्वे किं न तथेत्यत आह-अन्येदुरष्कमित्यादि। शोणितं संश्रित्य दोषो बलहान्या अन्येदुरष्कमपि ज्वरं कुर्यात्। एतेन कालप्रकृतिदृष्याणामन्यतमात् असामान्यात् बलहानौ मेदोवहाः सिरा रुद्धा दोषोऽन्येदुरष्कं ज्वरं कुर्यादिति भावः । ननु तहि किमल्पबलो दोष एवान्येदुरष्कं कुर्यानान्यो दोष इत्यत आह–अन्येदुरष्कमित्यादि। रक्ताश्रयो दोषोऽल्पबलः सन् मांसमपि गला मेदोवहाः सिरा रुट्टा अन्येदुष्क ज्वरं सप्रत्यनीकं भेषजसाध्यम् अहर्निशम् अहोरात्रम् एककालं दिवा वा रात्रौ वा एकवारं जनयति। मेदोवह सिरारोधो हि मांसगमनं विना न सम्भवति, मांसानन्तर्यान्मेदस इति। नन्वहर्निशमेककालं तृतीयकादिज्वरोऽपि स्यादित्यत आह–अन्येदुरष्क इत्यादि। अन्येदुरको ज्वरः प्रतिदिनमह निशमेककालं प्रवर्तते। तृतीयकस्तु दिनमेकं क्षिप्खा न भूला अनन्तरदिनमह निशमेककालं प्रवर्तते इति भेदः॥२९॥
गङ्गाधरः- ननु तर्हि किं रक्ताश्रयो दोष एवाल्पवलः सन् मेदोवहाः सिरा रुद्धा प्रतिदिनमन्येदुरष्कं दिनं क्षिप्तानन्तरदिने तृतीयकमपि करोतीत्याकाङ्क्षायामाह-नातीत्यादि। अनेदुरष्कारम्भको दोषोऽनतिप्रकुपितोऽहर्निशम् एककालं ज्वरं जनयति। स एव चेत् मांसस्रोतस्यनुगतो नातिप्रकुपितो दोषस्तदा तृतीयकं दिनमेकं क्षिप्ता तृतीयदिने ज्वरं जनयेदिति, अन्येदुप्रष्कन्तु नातिप्रकुपितो दोषः प्रतिदिनमेककालमहनिशं जनयेदिति भेदः। ननु सुश्रुते
चक्रपाणिः-मेदोवहा इत्यत मेदोवहनाड़ीरोधादेव मेदोदृष्टिज्ञेया ; उक्तं हि-"तेषां स्रोतसां + “दोषो मेदोवहा रुद्धा नाड़ीरण्येदुधकं ज्वरम्" इत्वेवं चक्रेण पठ्यते ।
For Private and Personal Use Only