SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४२२ चरक-संहिता। [ज्वरचिकित्सितम् रक्तधात्वाश्रयः प्रायो दोषः सततकं ज्वरम् । सप्रत्यनीकं कुरुते कालवृद्धिदयात्मकः ॥ अहोरात्रे सततको द्वौ कालावनुवर्तते। कालप्रकृतिदृष्याणां प्राप्यैवान्यतमाद बलम् ॥ २८ ॥ अथास्य प्रयोजनमाह-इति बुद्धत्यादि। प्रागपतर्पणैः पूर्व लङ्घनैः प्रायः क्रियाक्रमविधौ वक्ष्यमाणे कर्तव्ये सन्ततं समुपाचरेत् ॥२७॥ गङ्गाधरः-सन्ततमुक्त्वा सततमाह-रक्तत्यादि। प्राय इत्यनेन सम्माप्तिविशेषेणान्येदुरष्कमपि सततं ज्वरं कुरुते रक्ताश्रयो दोष इति ख्यापितम् । तदन्येदुरष्कलक्षणे वाच्यमत्रैव । सप्रत्यनीकं प्रत्यनीकभेषजवन्तम् । कालवृद्धिक्षयात्मक इति दोपविशेषणम्। रक्ताश्रयो वातोल्वणो वा पित्तोल्वणो वा कफोल्वणो वा दोषः स्वस्वकाले वृद्धिः परकाले क्षय इत्येतौ आत्मानौ स्वभावौ यस्य स तथा, स्वकाले ज्वरं वर्द्धयति परकाले क्षाययति। ननु सततोऽयं कथं प्रवत्तेते इत्यत आह- अहोरात्रे इत्यादि। ननु कथमहोरात्रे द्वौ कालावित्यत आह-कालेत्यादि। यस्मात काल ऋतुषदकान्यतमः, प्रकृतिः पुरुषस्य वातादिदोषानुशयिता, दृष्यश्चात्र रक्तं, तेषामन्यतमात् बलं प्राप्यैव द्वौ कालौ अहन्येक कालं रात्रावकं कालमनुवर्तते वेगं कुरुते। कश्चित् “अहनि द्वौ कालो रात्री च द्वौकालाविति” व्याचष्टे, तन्न ; सततान्येदुरष्कतृतीयकचतुर्थकानामुत्तरोत्तरमेकैककालापोहेन वेगदर्शनेनानुभवाभावात्। अन्यदुष्क ज्वरमपि शोणितं संश्रित्य दोषो ज्वरं सततं कुर्यात् स चाहोरात्रं द्वौ कालावनुवत्तेते ॥२८॥ द्विदोषो वा स्वल्पोपद्वलक्षणः। अतुल्यदृष्यप्रकृतिः” इत्यादिना ग्रन्थेनोच्यते, स तस्मादन्य एवेति। तन्वान्तरेऽपि 'अन्य'शब्दप्रयोगात् प्रतिपादितमिति न विरोधः ॥ २७ ॥ चक्रपाणिः-सततकं विवृणोति-रक्तधात्वाश्रय इत्यादि। 'प्रायः'ग्रहणात् सततको रक्तव्यतिरिक्तमांसं मांसादिधातुमपि आश्रयत इति दर्शयति । सप्रत्यनीक इति कालादिषु मध्ये अन्यतमः प्रत्यनीकः। कालवृद्धिक्षयात्मकमिति स्वोचिते काले वृद्धिक्षयोचितकाले वृद्धिः क्षयश्च यस्य स कालवृद्धिक्षयात्मा। तेन दोषानुगुणे काले ज्वरो भवति, दोषानुगुणकालव्यतिरिक्त च काले क्षयो भवति । ज्वरस्य कालप्रकृतिदूष्याणां मध्ये अन्यतमा बलप्राप्तौ सत्यामपि दोषसम्प्राप्तिमहिना हि कालः प्रधान इति नियमो ज्ञेयः ॥ २८ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy