SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३य अध्यायः चिकित्सितस्थानम्। इति बुद्धा ज्वरं वैद्यः सन्ततं समुपाचरेत् । क्रियाक्रमविधौ युक्तः प्रायः प्रागपतर्पणः ॥ २७ ॥ न च दैवविशेषाद धातुपाकाभावेन मारयन्ति तहि स वातोल्वणः सन्ततो मलपाकात् सप्तमदिवसे विसर्ग कृत्वा अव्यक्तलक्षणः सन् दुर्लभोपशमश्च सन् सप्ताहे त्यागं कृत्वा सप्ताहादूर्द्ध दीघमपि कालमनुवत्तते। एतेनदं ज्ञापितम् । यदि दोषदृष्या निःशेषेण शुद्धा भवन्ति न च दैवाद धातुपाकमापद्यन्ते तदा मलपाकाद् वातोल्वणः सप्ताहे पित्तोल्वणो दशाहे कफोल्वणो द्वादशाहे विसर्ग कृत्वा प्रशमं याति न चोद्ध किमपि कालमनुवत्तेत । दैववशाद यदि धातुपाकमापद्यन्ते तदा वातोलणः सप्ताहे पित्तोल्वणो दशाहे कफोल्वणो द्वादशाहे हन्ति, इति निःशेषतः शुद्धग्रा वाप्यशुद्धा वा नियमतो हि विसर्गत्वं मारकत्वं व्याख्यातम् । ख्यापित श्चानेन मुक्तानुबन्धित्वेनास्य विषमज्वरखमिति । उक्तश्च सुश्रुते--"प्रसक्तश्चाभिघातोत्थश्चेतनाप्रभवस्तु यः। रात्राहोः षटसु कालेषु कीर्तितेषु यथा पुरा। प्रसह्य विषमोऽभ्येति मानवं बहुधा ज्वरः। स चापि विपभो देहं न कदाचिदविमुञ्चति। ग्लानिगौरवकार्यभ्यः स यस्मान्न प्रमुच्यते। वेगे तु समतिक्रान्ते गतोऽयमिति लक्ष्यते। धावन्तरस्थो लीनखात् सौक्षम्यान्नैवोपलभ्यते । अल्पदोषेन्धनः क्षीणः क्षोणेन्धन इवानलः। दोषोऽल्पोऽहितसम्भूतो ज्वरोत्सृष्टस्य वा पुनः। धातुमन्यतमं प्राप्य करोति विषमज्वरम्। सन्ततं रसरक्तस्थः सोऽन्यदुनः पिशिताश्रितः। भेदोगतस्तृतीयेऽह्नि खस्थिमज्जगतः पुनः। कुऱ्यांचातुर्थकं घोरमन्तकं रोगसङ्करम् । केचिद् भूताभिषङ्गोत्थं ब्रवते विषमज्वरम् । सप्ताहं वा दशाहं वा द्वादशाहमथापि वा। सन्तत्या योऽविसर्गी स्यात् सन्ततः स निगद्यते। अहोरात्रे सततको द्वौ कालावनुवर्तते। अन्येदुरष्कस्वहोरात्रमेककालं प्रवत्तेते। तृतीयकस्तृतीयेऽह्नि चतुर्थऽह्नि चतुर्थकः। वातेनोद्धयमानस्तु यथा पूर्येत सागरः । वातेनोदीरितास्तद्वद् दोषाः कुर्वन्ति वै ज्वरान् । यथा वेगागमे वेलां छादयिखा महोदधेः। वेगहानौ तदेवाभ्भस्तत्रैवान्तर्णिधीयते। दोषवेगोदये तद्वदुदीर्येत ज्वरोऽस्य वा। वेगहानौ प्रशाम्येत यथाम्भः सागरे तथा ॥” इति। दीर्घकालमनुवर्तते ; ततो दुर्लभोपशमो भवतीति युक्त इत्युक्तम् । एभिर्धात्वादिद्वादशायित्वदशाहादिव्यापकत्वादिभिर्धम्मैः सन्ततो भिन्न एव वातादिज्वरेभ्यः कालानियमेन द्वित्रिदिनेषु व्यवच्छेदेनानुषक्तेभ्यः। यस्तु तन्त्रान्तरे "तथा सन्तत एवान्यः स्वल्पदुबलकारणः। एकदोषो ३०४ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy