________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४२०
चरक-संहिता। ज्वरचिकित्सितम यदा तु नातिशुध्यन्ति न वा शुध्यन्ति सर्वशः। द्वादशैते समुदिष्टाः सन्ततस्याश्रयास्तदा ॥ विसर्ग द्वादशे कृत्वा दिवसेऽव्यक्तलक्षणः ।
दुर्लभोपशमः कालं दीर्घमप्यनुवर्तते ॥ ननु दशाहादिविकल्पेन कथमस्य विसर्गमारणविकल्पः स्यादित्यत्त आह-यदा वित्यादि। यदा सन्ततस्य ज्वरस्य दोपदृष्या नातिशुध्यन्ति अर्थात् किञ्चित् शुध्यन्ति अथवा सर्वशो न शुध्यन्ति तदा एते द्वादशादिदिवसा आश्रयाः समुद्दिष्टाः। ननु सन्ततस्य ज्वरस्य यदा दोषदृष्या नातिशुध्यन्ति निःशेषेण न शुध्यन्ति तदा श्लेष्माधिकस्य द्वादशदिनव्यापित्वं किं न स्यात् इति ? किञ्चिच्छुद्धग्रा निःशेषतः शुद्धता वा स-शो वाप्यशुद्धया पित्तोल्वणस्य दशाहव्यापित्वं वातोल्वणस्य सप्ताहव्यापित्वं वा किं न स्यादिति च नेष्यते तहिं संशुद्धया वाप्यशुद्धया वेति पूर्ववचनं विरुध्यत इत्यत आह–विसर्गमित्यादि। द्वादशानां पूरण इति द्वादशः। मर्यादाया न शेपत्वेन द्वादशदिवसमर्यादामाश्रित्य प्रोक्तं, श्लैष्मिकस्य सन्ततज्वरस्य दोपदृष्या यदा न निःशेषेण संशोध्य किश्चिच्च शुद्धा भवन्ति अथवा सर्वशो न शुद्धा भवन्ति न च धातुपाकान्मारयन्ति तदा श्लैष्मिको मलपाकात् द्वादशे दिवसे विसर्ग त्यागं कृत्वा अव्यक्तलक्षणो भूत्वा दुर्लभोपशमः सन् दीधमपि कालं द्वादशादृर्द्ध मनुवर्तते । एवं पैत्तिकस्य सन्ततस्य दोषदृष्या यदा निःशेषतो न संशोध्य किश्चिच्छुद्धा भवन्ति अथवा सर्वतोऽशुद्धा भवन्ति न च दैवाद् धातुपाकान्मारयन्ति तदा स पत्तिकः सन्ततो मलपाकात् दशाहे विसर्ग कृत्वाऽव्यक्तलक्षणः सन् दुर्लभोपशमश्च सन ऊर्द्ध दशाहाद् दीर्घमपि कालमनुवर्तते। एवं वातोल्वणस्य सन्ततो यदि दोषदृष्या निःशेषेण न संशोध्य किञ्चिच्छद्धा भवन्ति सर्वशो वाप्यशुद्धा भवन्ति सर्वे सर्वथा वा अविशुद्धा भवन्ति, तदा जन्तीत्यर्थः । अथ यदा स्तोका शुद्धिस्तदा का विधेत्याहयदा वित्यादि । नातिशुध्यन्तीति सर्व एव नातिशुद्धा भवन्ति सावशेषदोषा भवन्तीत्यर्थः। न वा शुध्यन्ति सर्वश इति रसादिषु मध्ये कतिचित् शुध्यन्ति, कतिचिच्चाविशुद्धा निवर्तन्त इत्यथः । द्वादशेति सप्त धातवः वयो दोषा मूत्र पुरीपञ्च। दोषाणाञ्च ह शुद्धिः प्रकृतिगमनेन म्या। द्वादशाश्रयत्वन सन्ततस्यकदोषारब्धत्वं यदुच्यते, तन्निरस्तमेव ज्ञेयम् । विसर्गमिति परित्यागम् । विसर्गस्वरूपमाह-अव्यक्तलक्षणमिति, अव्यक्तं लक्षणं यस्य, तमव्यक्तलक्षणं विसर्गम् ; एतेन, तदापि ज्वरे लीनस्यैव परं लक्षणानि यस्य व्यक्तानि न भवन्तीति दर्शयन्ति । तदनु त्रयोदशदिनादारभ्य
For Private and Personal Use Only