________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३य अध्यायः ]
चिकित्सितस्थानम् ।
यथा धातूंस्तथा मूत्रं पुरीषञ्चानिलादयः । युगपच्चानुपद्यन्ते नियमात् सन्ततै ज्वरे + ॥ स शुद्धा वाप्यशुद्धा वा रसादीनामशेषतः । सप्ताहादिषु कालेषु प्रशमं याति हन्ति वा ॥
*
Acharya Shri Kailassagarsuri Gyanmandir
हीनं सन्ततं ज्वरं कुर्य्यात् तस्मात् सुदुःसहो शेयः । न केवलमेतेन सुदुःसहः परन्तु हेलन्तरमप्यस्तीत्यतः सुदुःसहत्वे हेत्वन्तरमाह-यथेत्यादि । कालादिभिस्तुल्यदोषजस्य निष्प्रत्यनीकत्वं सुदुःसहत्वञ्च तथा सन्ततज्वरेऽनिलादयो दोषाः कारणवैचित्रयात् विचित्रदुष्टा नियमात् यथा धातून रसादीन अनुपद्यन्ते अनुगच्छन्ति तथा तेनैव प्रकारेण मूत्रं तथा पुरीषञ्च युगपदेकदेवानुपद्यन्ते तस्माच्च सुदुःसहो ज्ञेयः । अत्र यदि धातून रसादीन् दोषाः पचन्ति तदा हन्ति यदि मूत्रपुरीषे पचन्ति तदा प्रशाम्यति इति भावः । ननु कालदृष्टप्रकृतिभिस्तुल्यदोषजत्वेन निष्प्रत्यनीकत्वात् प्रशमं याति एकान्ततस्तु हन्ति इत्यत आह-स शुद्धेत्यादि । रसादीनां संशोधनभेषजैः शुद्धया वाप्यशुद्धया वा स सन्ततो ज्वरः सप्ताहादिषु कालेषु पुरुषस्य दैववशात् स्वभावादेव मलपाकात् प्रशमं याति दुर्दैववशात् स्वभावादेव धातुपाकात् इन्ति वेति निष्प्रत्यतीकत्वं भेषजप्रतिकाय्र्यत्वाभावात् ।
यथा धातु " इति पाठान्तरं ।
+ अनुबध्नाति युगपदवश्यं सन्तते ज्वरे इति पाठान्तरम् ।
२४१६
तुल्यत्वं सम्भवत्येव ; 'तस्माज्ज्ञेयः सुदुःसहः' इति । अतोऽनन्तरं 'यथा धातुम्" इत्यादि पठन्ति इतश्च, 'प्रायः प्रागपतर्पणैः' इत्यन्तं परित्वा 'रक्ताश्रयः' इत्यादिना सततकादिलक्षणं पठन्ति । अन्ये तु - " सुदुःसहः" इति पठित्वा सततान्येाष्कलक्षणे पठन्ति तदनु "यथा धातुम्" इत्यादिग्रन्थम्, ततः पुनराचार्य्यान्तरमतेन अन्येनष्कादिज्वरवयलक्षणं पठन्ति तत्र प्रथमपाठक्रमे 'यथा धातुम्' इत्यादिना 'सन्ततः स्यात्' इत्यादिक्रमं ब्रुवते । धातुमिति रसादिधातुसप्तकम् । रसदुष्ट्यभिधानेन विशेषेण रसदृष्टिज्ञेया । यथेति येन प्रकारेण । युगपदित्यादि । युगपदित्येककालम् । अनुपद्यन्त इति सर्व्वानेव धात्वादीन् सर्व्व एव दोषाश्चानुपद्यन्ते । स शुद्धया वेत्यादि । सन्ततः, यदा सर्व्वे रसादयः सर्व्वथा विशुद्धा भवन्ति, तदा प्रशाम्यति सप्ताहादिषु यदा रसादयः
I
For Private and Personal Use Only
ڈ