________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४१८
चरक-संहिता। [ज्वरचिकित्सितम् कालदृष्यप्रकृतिभिर्दोषस्तुल्यो हि सन्ततम् ।
निष्प्रत्यनीकं कुरुते तस्माज्ज्ञ यः सुदुःसहः ॥ शोघ्र प्रशमं याति हन्ति वा। वाद्वयव्यवस्थया पित्ताधिको यो भवति स दशाहं व्याप्य श्लेष्माधिको यो भवति स द्वादशाहं व्याप्य वाताधिको यो भवति स सप्ताहं व्याप्य सुदुःसहः शीघ्रकारिखात् शीघ्र प्रशमं याति शीघ्र हन्ति वेति । यदा तु नातिशुध्यन्तीति वक्ष्यमाणवचनात्। अतिदुःखेन सोलु शक्यः सुदुःसहः शीघ्रकारिखात् तीक्ष्णत्वेन शीघ्रफलजनकखात् शीघ्र प्रशमं मलपाकात् प्रशान्तिं याति शीघ्र वा धातुपाकाद्धन्तीति हन्तृखमस्य प्रागुक्तं सप्ताहाद वेत्यादिना । सुश्रुतेनापि गम्भीरतीक्ष्णवेगात मिति तीक्ष्णवेगशब्देनास्य मारकखमुक्तम् । एतेन दशाहं वा द्वादशाह वा सप्ताह वा व्याप्य सन्ततं योऽविसर्गी स सन्ततज्वरः। सुश्रुतेनाप्युक्तं सप्ताहं वा दशाहं वा द्वादशाहमथापि वा। सन्तत्या योऽविसर्गी स्यात् सन्ततः स निगद्यते इति। प्रशमं याति हन्ति वेत्यत्र मलधातुपाको हेतुर्योध्यः। उक्तं हि "पित्तकफानिलवृद्धया दशदिवसद्वादशाहसप्ताहात्। हन्ति विमुञ्चति वाशु त्रिदोषजो धातुमलपाकात् ॥” इति। सुतरां प्रलापभ्रमश्वासैः सन्ततज्वरे धातुपाको ज्ञ योऽन्यथा तु मलपाक इति । कश्चिद व्याचष्टे, उत्तरोत्तरव्याधिपरिद्धिबलहासाभ्यां शुक्रादिधातुसहितमूत्रखादिना धातुपाको शेयोऽन्यथा तु मलपाक इति, तन्न, तथात्वे जीवनदर्शनात् ।
नन्वेष कथं सुदुःसह इत्यत आह-कालेत्यादि। कालो वसन्तादिदष्यश्च रसधातुः प्रकृतिः पुरुषस्य वातलखादिः। कालदृष्यप्रकृतिभिः व्यस्ताभिः समस्ताभिर्वा तुल्यो दोषः प्राधान्येन कुपितः सन् निष्पत्यनीकं प्रत्यनीकभेषज
रसादीनामप्यशुद्धया शुद्ध्या च वक्तव्यः। कस्मादेवमयं दुःसहः शीघ्रकारी सन्ततो भवतीत्याहकाल इत्यादि। कालो वर्षादिः, दूष्यो रसादिः, प्रकृतिर्दहप्रकृतिः श्लेष्मप्रकृत्यादिका।
ननु कालादितुल्यता दोषस्य कदाचिदेव सम्भवति, यथा-वसन्ते श्लेष्मप्रकृतौ मेदसि दूष्ये कफो दोषः, एवं शरदि पित्तमपि ज्ञेयम्, इतरेपान्तु लिदोषादीनां कालादितुल्यत्वं दुष्प्राप्यम् । अतस्तत्कृतसन्ततः कथं भवतु, सन्ततश्च द्वादशाश्रयत्वेन त्रिदोषज एव वक्तव्यः ; उच्यते-'तुल्यः' इत्यभिधायापि यत् 'निष्प्रत्यनीकः' इति करोति, तेन कालाद्यनुगुणत्वमेव कालादितुल्यतां स्फोरयति। कालादीनाञ्चासमानानामपि बलवता दोषेण परिगृहीतानां प्रतीपार्थकरणासामर्थ्येनानुगुणतैव भवति ; यथा-बलवतो राज्ञो हृदयेन प्रतिकूला अपि विपक्षा राजानोऽनुगुणा एव भवन्ति । किञ्च, विदोषारब्ध एवास्मन्मते सन्ततः, तस्य चान्यतरं दोषं प्रति प्रतिकूलकालादीनां
For Private and Personal Use Only