________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दय अध्यायः
चिकित्सितस्थानम् । स्रोतोभिर्विसृता दोषा गुरखो रसवाहिभिः । सर्वदेहानुगाः स्तब्धाः कुर्वते सन्ततज्वरम् ॥ दशाहं द्वादशाहं वा सप्ताह वा सुदुःसहः ।
स शीघ्र' शीघ्रकारित्वात् प्रशमं याति हन्ति वा॥ परे तु गम्भीर इव यत्र वातादीनां निश्चयो न कर्तुं शक्यते इत्याहुः। तद् द्वयं न साधु। दैघेरात्रिको ज्वरोऽसाध्यः। दीर्घरात्रानुबन्धी ज्वरो दैघेरात्रिक इत्येके, दीपों मरणरूपां रात्रिमनुवर्त्तते इति दैर्धरात्रिको मृत्युकृदित्यर्थः । तेन क्षीणस्य शुनस्य ज्वरो दैर्घरात्रिको मृत्युकृत् ; 'गम्भीरो ज्वरो दैर्घरात्रिको मृत्युकृदित्यर्थः। यश्च बलवान् केशसीमन्तकृत् स ज्वरोऽसाध्य इत्यन्क्यः इत्यपर आह। केशसीमन्तकृदिति। अनिमित्तं केशेषु यस्य सीमन्तो भवति स ज्वरी म्रियते इत्यर्थः। सुश्रुतेऽप्यसाध्यज्वरलक्षणमुक्तं-“हतप्रभेन्द्रियं क्षामं दुरात्मानमुपद्रुतम् । गम्भीरतीक्ष्णवेगात्तुं ज्वरितं परिवर्जयेत् ॥” तथा । "केशाः सीमन्तिनो यस्य संक्षिप्ते विनते भ्र वौ। लुनन्ति चाक्षिपक्ष्माणि सोऽचिराद याति मृत्यवे ॥” इति ॥२६॥
गङ्गाधरः-अथ पुनः पञ्चविधो दृष्ट इत्यादिना सन्ततादिभेदेन ये पञ्च भेदा उक्तास्तान् दर्शयति-स्रोतोभिरित्यादि। गुरवो दोषा एकैकोल्वणास्त्रयो दोषा रसवाहिभिः स्रोतोभिः विमृताः कृतप्रसरणाः सन्तः सर्वदेहानुगाः सर्वदेह सुतरामनुगता भूखा स्तब्धा दुष्टिस्वभावाद दशाहादिनिश्चलाश्च भूखा सन्ततज्वरं कुव्वेते। इति सन्ततज्वरस्य सम्प्राप्तिमुक्त्वा लिङ्गमाह-दशाहमित्यादि। स कालदूष्यप्रकृतितुल्यदोषजः सन्ततो ज्वरः दोषदृष्याणां निःशेषेण संशोधनाभावात् संशोधनाच्च दशाह, सर्वशः संशोधनात् तथा संशोधनाभावाद् द्वादशाह, सर्वशः संशोधनात् संशोधनाभावाच्च सप्ताहं व्याप्य सुदुःसहः शीघ्रकारिखात्
चक्रपाणिः-स्रोतोभिरित्यादिना सन्ततादिभेदमाह। गुरव इति वृद्धाः। दशाहमित्यादि । दशाहादीन् वाप्य सुःसहो भवतीति शेषः। शीघ्रमिति दशाहादय एव प्रमूततरकालान्तरापेक्षया 'शीघ्र' शब्दवाच्याः। दशाहादिविकल्पश्च यथाक्रमं पित्तकफानिलोत्तरसन्निपातारब्धत्वात् सन्ततः ज्वरस्य ज्ञेयः। यदुक्तमन्यत्रापि-"पित्तकफानिलवृद्धया दशदिवसद्वादशाहसप्ताहात्। हन्ति विमुञ्चति वाशु ज्वरोष्मा धातुमलपाकात् ॥” तथा “दशद्वादशसप्ताहैः पित्तश्लेष्मानिला. धिकः। दग्धोष्मणा धातुमलान् हन्ति मुञ्चति वा ज्वरः ॥” इति ; हननमोचनविकल्पस्ट
For Private and Personal Use Only