________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४१६
ज्वरचिकित्सितम्
चरक-संहिता। सप्ताहाद वा दशाहाद वा द्वादशाहात् तथैव च। सप्रलापभ्रमश्वासस्तीक्ष्णो हन्याज्ज्वरो नरम् ॥ २५ ॥ ज्वरः क्षीणस्य शनस्य गम्भीरो दैर्घरात्रिकः । असाध्यो बलवान् यश्च केशसीमन्तकृज्ज्वरः ॥ २६ ॥
प्राणान्तकृतश्च, ज्वरस्वशीघ्रमिन्द्रियनाशनो न प्राणान्तकृदिति भावः । शीघ्रञ्चेन्द्रियनाशेऽपि निदानोक्तहेत विशेषाणां गुणरसवीव्यविपाकप्रभावविशेघेण शीघ्र न्द्रियनाशकदोषदुष्टिविशेषकरेण दूषितदोषो हेतुरुन्नेयः । एवं परत्रापि सव्वत्र रोगाधिकारेऽरिष्टलक्षणवैचित्रोत्पादनिमित्तमुन्नेयम् । यस्चत्र इन्द्रियशब्देन मनोऽपि व्याचष्टे सुश्रुतदर्शनात् तन्न, यतोऽस्मिंस्तन्त्रे स्वमते मनस इन्द्रियाणां चेष्टाप्रत्ययभूतखादिवचनरिन्द्रियतः पृथगुपदेशदर्शनात् ॥२४॥
गङ्गाधरः ---सप्ताहाद वेत्यादि। तीक्ष्णोऽत्युग्रवेगो ज्वरो यदि प्रलापभ्रमश्वासस्त्रिभिमिलितैयुक्तस्तदा वातिकः सप्ताहात् पैत्तिको दशाहात् श्लैष्मिको द्वादशाहान्नरं हन्यात् । वा-शब्द एवमेवं दोषभेदमर्यादाज्ञापनार्थम् । त्रिषु दोषेषु वायोः शीघ्रकारितात् सप्ताह नियमस्ततोऽल्पशीघ्रखात् पित्तस्य दशाहनियमः श्लेष्मणश्विरकारिवात् द्वादशाहनियम इति बोध्यम् ।। २५॥
गङ्गाधरः-ज्वरः क्षीणस्येत्यादि। क्षीणस्य क्षीणमांसबलस्य शूनस्य ज्वरोऽसाध्यः। गम्भीरोऽन्तबैगो ज्वरोऽसाध्यः। गम्भीरस्तु ज्वरो ज्ञे यो ह्यन्तर्दाहेन तृष्णया। आनद्धत्वेन चात्यर्थ श्वासकासोद्गमेन च ॥ इति सुश्रुतवचनेन सह अन्तर्दाहोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः। सन्ध्यस्थिशूलमस्वेदो दोपवचौविनिग्रहः। अन्तर्वैगस्य लिङ्गानि ज्वरस्यैतानि लक्षयेत् इतिस्ववचनस्य तुल्यार्थखात्। कश्चिदन्तर्धातुस्थो ज्वरो गम्भीर इत्याह ।
चक्रपाणिः-सप्ताहाद्वेत्यादि। सप्ताहाद वातोत्तरः सप्रलापभ्रमश्वासस्तीक्ष्णो हन्ति। एवंगुण एव पैत्तिको दशाहात्, तथैवंगुण एव कफजो द्वादशाहादन्ति शीघ्रतमशीघ्रतरशीघ्रविकारकारित्वाद वातपित्तकफानामिति वर्णयन्ति। 'वा'शब्दो विकल्पार्थः, तेन सप्ताहादिष्वपि अर्जागपि ज्वरेण त्वहननं लक्ष्यते। अन्ये तु सप्ताहात् समलाएः, दशाहात् सभ्रमः, द्वादशाहात् सश्वासो हन्तीति व्याख्यानयन्ति ॥ २५॥
चक्रपाणिः-गम्भीरोऽन्तर्वेगः, किंवा गम्भीरधातुस्थः। दैर्धरात्रिको दीर्घकालानुबन्धी किंवा दीर्धी रात्रि मरणरूपां करोतीति दैर्घरातिकः ॥ २६ ॥
For Private and Personal Use Only