________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः]
चिकित्सितस्थानम्। २४१५ भवतीति। परे तु “एक द्वौ त्रीन् बहून् वापि देहे धावादियोगतः। दर्शयन्ति विकारांस्तु कुपिताः पवनादयः” इति तन्त्रान्तरवचनमुपन्यस्य दृष्यादिसहकारिकारणाधिक्ययोगायोगाभ्यां बहुलक्षणं स्वल्पलक्षणञ्च कुर्वन्ति दोषाः, न तु स्वमानाधिक्यादिति। अन्ये तु विकृतिविषमसमवायादल्पहेतुकश्च बहुलक्षणो भवति बहुहेतुकचाल्पलक्षणो भवतीत्याहुरतन्मतत्रयं न मनोरममेव । यत्र हि बहुकारणोपपत्तित जहासम्भवरतत्रादृष्टविषमसमवायादयः कल्प्यन्ते, नवज्वरादौ च रसधाखतिरिक्तधातुद्वयादिसान्निध्यश्च न वत्तेते, तेन किं धातुगतज्वरं विना बहुलक्षणो न स्यात् ? न चास्ति नियमः, नवज्वरादिष्वपि बहुलक्षणादिदर्शनात्। तस्माद ब्रमः। ज्वरस्य निमित्तार्थकारिण्या प्राक्तनकम्मजातया विकृत्या विज्ञ यमरिष्टलक्षणं पूव्वरूपीयेन्द्रिये व्याख्यातम् । “प्रेतैः सह पिबेन्मद्य स्वप्ने यः कृष्यते शुना। स घोरं ज्वरमासाद्य न जीवेन च मृज्यते।” इति । अत्र तु पुनरिदमरिष्टलक्षणन्तु लक्ष्यनिमित्तया विकृत्या विज्ञ यम्, उक्तं हि वर्णवरीयेन्द्रिये-- लक्ष्यनिमित्ता तु सा यस्या उपलभ्यते निमित्तं यथोक्तनिदानेषु इति । निदानव्याख्याने लक्षणस्यास्य प्रदर्शनात्, इन्द्रियस्थाने च प्रदर्शनात् । अस्यास्तु बहुलक्षणवरूपाया विकृतेनिमित्तन्विदमुलभ्यते। निदानस्थाने अरनिदानानि यानि प्रोक्तानि तेर्बहुभिर्वलिभिहतुविशेषैगुणरसवीर्यविपाकप्रभावविशेषेण दूषणविशेषकासश्वासादितत्तग्राधिसम्प्राप्तिजनकं तत्तद्वयाधिनियतस्थानसंश्रयणमापन्नो दोष एकैकप्रविभागेण कृत्वा तत्तग्राधिरूपाणि लक्षणानि जनयति । व्याख्यातच स्वयमेवेत्थं शोषनिदाने, तथा सति बहुभिबेलिभिहंतुभिरल्पलक्षणजनकदोषदुष्टिविशेषकरैर्जातो रोगोऽल्पलक्षणो भवति इति। तनिरासाथ बहुलक्षण इत्युक्तम् । अल्पैश्च हेतुभिर्बहुलक्षणजनकदोषदुष्टिविशेषकरैर्जातोऽपि रोगो बहुलक्षणो भवति स च न प्राणान्तकृद भवतीति ख्यापनार्थ बहुभिरित्युक्तम् । अबलिभिश्च बहुभिर्हेतुभिरल्पैर्वा हेतुभिर्बहुलक्षणजनकदोषदुष्टिकरैर्जातोऽपि बहुलक्षणो भवति। तत्र बहुभिरवलिभिहेतुभिर्जातो बहुलक्षणो ज्वरो न प्राणान्तकृद भवतीत्युक्तं वलिभिरिति तत्त्वम्। एवं यस्तु शीघ्रम् इन्द्रियनाशनो ज्वरः शीघ्रमुत्पन्नमात्रं चिकित्स्यमानोऽपि दशानां श्रोत्रादीनां बुद्धिकर्मेन्द्रियाणां स्वस्वक्रियाश्रवणादिशक्तिं शीघ्र नाशयति, न तूपेक्षया कालान्तरेण वा ; स प्राणान्तकृत् । उपेक्ष्यमाणारखन्ये रोगा इन्द्रियनाशकाः बहून् वापि देहे धात्वादियोगतः। दर्शयन्ति विकारांस्तु कुपिताः पवनादयः” इति। शीघ्र मित्युत्पन्नमात्र एव ॥ २४॥
For Private and Personal Use Only