________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ज्वरचिकित्सितम्
२४१४
चरक-संहिता। हेतुभिर्बहुभिर्जातो बलिभिर्बहुलक्षणः ।
ज्वरः प्राणान्तकृद् यश्च शीघ्रमिन्द्रियनाशनः ॥ २४ ॥ तस्मात् ज्येष्ठापाढरूपे ग्रीष्मे यो विधिरुक्तः स्वादृशीतद्रवस्निग्धादिदेहबलस्निग्धवादिकरो वातपित्तहरश्व सोऽपि न ग्रीष्पशेपमासे प्राटप्रथममासरूपे वायुचयकाले विरुध्यते। तथा प्रादृटशेषमासे श्रावणेऽपि वायुचयकाले यः श्रावणभाद्ररूपवर्षाविधिः साधारणतु विधिरुक्तः सोऽपि न विरुध्यते त्रिदोषहरखात्। इति विस्तरेण तत्र व्याख्यातम् ।
ननु कालेधन्येषु वैकृत इति यदुक्तं तत्र किं कालप्रकृतिने कारणं, कारणं चेत् तर्हि प्राकृत एव भवति कुतो वैकृत उच्यते इत्याशङ्कायां पूर्वमुक्तं हेतव इत्यादि। तस्य वैकृतस्य ज्वरस्य विविधा हेतवो निदाने निदानस्थाने दशिताः। एवमन्यरोगाणां स्वस्वाधिकारे दर्शिता दर्शयितव्याश्च बोध्याः। अथ साध्यश्चासाध्य एव चेति यद द्वैविध्यमुक्तं तद् भाष्येण विवृणोति-बलवस्वित्यादि। अल्पदोषेषु दोषाश्चयतो वांशतो वाप्यल्पा यत्र तेषु पुरुषेषु बलवत्सु अनुपद्रवो यो ज्वरः स साध्यः। ज्वरस्य तूपद्रवास्तत्रान्तरे प्रोक्ताः-"श्वासो मूरुिचिच्छदि तृष्णातीसारविडग्रहाः। हिक्काकासाङ्गभेदाश्च ज्वरस्योपद्रवा दश” ॥ इति ॥२३॥
गङ्गाधरः-साध्यज्वरमुक्त्वाथासाध्यज्वरमाह-हेतुभिरित्यादि। वलिभिबहुभिहेतुभिः ज्वरकर वैर्जातो ज्वरो बहुलक्षणश्चेत् तदा उत्पन्नमात्रं चिकित्स्यमानोऽपि बहुलिङ्गो न तूपेक्षया बहुलिङ्गस्तु प्राणान्तकृत् भवति। ननु बलिभिबहुभिर्हेतुभिर्जातो व्याधिबहुलक्षण एव भवति तत् कथं पुनबहुलक्षण इत्युक्तमिति ? अत्र कश्चिद् भापते-स्वस्वकारणेभ्यः कुपिता दोषाः सर्वेषामेव व्याधीनां जनका भवितुमर्हन्ति, न च तत्रारित प्रतिनियामकः कश्चिदन्तरेण यथा प्राक्तनकर्मणरतस्माद् यदा स्वहेतुकुपितो दोषः प्राक्तनकर्मविशेषचोदितः सन् विशिष्टां दुष्टिमासाद्य यद् व्याधिजनकस्थानसंश्रयदृष्यसंयोगादिकां विशिष्ट सामग्रीमासादयति तदा तद् व्याधिविशेषमभिनिबत्तयति। इत्यतो बलवद्वहुहेतुजोऽप्यदृष्टविशेषादल्पलक्षणो बहुलक्षणोऽपि
चक्रपाणिः-बलिभिर्बहुभिश्च हेतुभिर्जातो बहुलक्षण एवं भविष्यति, तत् किं 'बहुलक्षणः' इतिपदेन ? उच्यते, पुरुषस्याग्निबलादिविशेषेण दोषहेतवो यथोक्तदोषगुणा वापि न बहुलक्षणं रोगं कुर्वन्ति, तथा सम्प्राप्तिविशेषाभावाच न बहुलक्षणत्वं भवति, यदुक्तम् “एकं द्वौ लीन्
For Private and Personal Use Only