________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
THHTHHAL
चिकित्सितस्थानम्।
२४१३ वैकृतत्वमङ्गीकृत्य। तन्त्रेऽस्मिन् सुश्रुते च यत् प्राकृतत्ववचनं तद् ग्रीष्मे वातस्य चयपूर्वकत्वेन प्रापि प्रकोपेण व्याधिहेतुखात् पित्तकफयोस्तदानीमेव विना चयं प्रकोपेण व्याधिहेतुखाद्वैकृतत्वं नाङ्गीकृत्य प्राकृतवाङ्गीकारादिति न विरोधः। यच्चास्मिंस्तन्त्रे प्रादृषि वातजस्य प्राकृतलवचनं नास्ति जतूकणेश्व प्राकृतत्वं न मन्यते इति व्याख्यातं तत् प्रमादेन भ्रमेण वा। प्रायेणानिलजो दुःख इत्यस्य वैकृत इत्यनेन योजनाकरणाबोध्यम् । एवं प्रादृषि प्राकृतानाम् अन्यरोगाणां दुःसाध्यत्वं ज्वरस्य तु सुखसाध्यत्वं प्रभावात्। तन्त्रान्तरे हि "ज्वरे तुल्यत्तुदोपत्वं प्रमेहे तुल्यदृष्यता। रक्तगुल्मे पुराणत्वं सुखसाध्यस्य लक्षणम्” इति यद् व्याख्यातं तदपि प्रमादादेव। ज्वरे हि तुल्यत्तदोषत्वेऽपि वसन्त शरदुद्भवयोरेवैकान्त्येन सुखसाध्यत्वं सम्पद्यते। शीतोष्णवाभ्यां साधारणत्वेन शरदस्तत्र च दोषौ पित्तमुष्णं शीतः कफ इति तुल्यता। वसन्ते च शीतोष्णसाधारणे प्रधानकफः शीतोऽनुबन्धश्च वायुः शीतः पित्तमुष्णमिति साधारणत्वेन तुल्यखमृतुदोषयोः प्रापि च शीतोष्णसाधारणत्वेन वातपित्तकफानाञ्च शीतोष्णवाभ्यां तुल्यत्वेऽपि प्रेरकहेतुबाहुल्याबाहुल्याभ्यां दुःखसुखसाध्यत्वे सम्पदाते। अतस्तुल्यत्तदोषत्वन्तु तुल्यो ऋतुश्च स्वल्पहेतुकुपितो दोषश्च यत्र स तुल्यत्तदोष इत्यभिप्रेत्य उक्तमिति बोध्यम्। कचिदुक्तं “वर्षाशरद्वसन्तेषु वातादयः प्राकृतः क्रमात् । वैकृतोऽन्यः स दुःसाध्यः प्राकृतश्चानिलोद्भवः । वर्षासु मारुतो दुष्टः पित्तश्लेष्मान्वितो ज्वरम्। कुय्यात् पित्तश्च शरदि तस्य चानुबलः कफः। तत्प्रकृत्या विसगांच तत्र नानशनाद भयम्। कफो वसन्ते तमपि वातपित्तं भवेदनु॥” इति यत् तत्रापि वैकृतोऽन्यः स दुःसाध्यः प्राकृतश्चानिलोदभवः प्रायेणेति व्याख्येयम् । वर्षास्थिति प्रादृषि पर्यायवात् न तु श्रावणभाद्ररूपे वर्षतौ । चयप्रकोपप्रशमानान्तु वर्षाशरद्धपन्तवसन्तग्रीष्मप्राड़ित्येवं रूपेष्टतुष सुश्रुतेन स्फुटमुक्तत्वात् ; तस्याशितीये यदुत्तरदक्षिणायनयोः शिशिरवसन्तग्रीष्मामकवर्षाशरद्धेमन्तात्मकयोः प्रत्येकमृत्युचर्या प्रोक्ता, तत्र प्राविधिवर्षाविधिभेदो नास्ति, तयोर्दक्षिणायनावधिमासद्वयात्मकत्वेन पुनरेकत्तखात् । हेमन्तशिशिरयोश्च भेदैन किञ्चिविशेषणमुक्तं दक्षिणायनस्य शेषमासद्वयात्मको हि हेमन्त उत्तरायणस्य प्रथमासद्वयात्मकश्च शिशिर इति, न च तत्र चयादिप्रतिषेधरूपेण चर्या प्रोक्ता। परन्तु वातप्राबल्यप्रतीकारविधिरूपेण प्रायस्तुल्यविधिरुक्तः; "हिक्काश्वासकासतृष्णाच्छई पतीसारमूर्छाङ्गभेदारोचककृच्छविटकता वेति दशोपद्रवा ज्वरमुपद्रवन्ति" इत्युक्ताः ॥२३॥
३०३
For Private and Personal Use Only