SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४१२ चरक-संहिता। ज्वरचिकित्सितम् जायन्ते, तहि तेऽपि किं वसन्तशरदुद्भवाः सुखसाध्याः वातजाः कुच्छसाध्याः स्युरिति चेन्न, यतः “उष्णमुष्णेन संवृद्धं पित्तं शरदि कुप्यति” इत्युक्त्वा स्वकारणकदम्लोप्णादिभिः संवृद्धपित्तप्रकोपाशङ्कानिकारार्थं तद्भाष्येण व्याख्यातं वर्षास्खम्लविपाकाभिरित्यादिना ; एवं चितः शीते कफश्चैवेत्यादुत्वा स्निग्धमधुरादिस्वकारणकुपितकफनिरासार्थ तद्भाष्येण व्याख्यातमद्भिश्चैव इत्यादिना। तस्मात् कालप्रकृतिजात् वर्षास्वम्ल विपाकिजलादितः सञ्चितपित्तस्य शरद्यादित्यतेजसाभिव्यक्तितो जाता रोगाः सुखसाध्याः न तु स्वकारणकुपितात् पित्तात्। एवं कफस्यापि व्याख्येयम्। ननु प्राषि वायोरप्येवं चयपूर्वकव्याधिजनकखात् कथं तज्जा दुःखाः --- उक्तं हि सुश्रते-“ता एवोषधयो निदाघे निःसारा रुक्षा अतिमात्रं लव्यो भवन्त्यापश्च । ता उपयुज्यमानाः सूर्यप्रतापोपशोषितदेहानां देहिनां रोक्ष्याल्लघुखादवेशद्याच्च वायोः सञ्चयमापादयन्ति । स सञ्चयः प्रापि चात्यर्थ जलोपक्लिन्नायां भूमौ क्लिन्नदेहानां प्राणिनां शीतवातवर्षरितो वातिकान् व्याधीन जनयति" इति नाशङ्काम्। तथा सञ्चयपूव्वेकत्वेऽपि वायुप्रकोपस्य कारणानि हि भूमेलक्लिन्नता देहस्य ततः क्लिन्नता शीतवातवर्षाणि च तथा स्वयमुक्तं तस्याशितीये-"आदानदुर्बले देहे पक्ता भवति दुर्बलः। स वर्षास्वनिलादीनां दूषणैर्बाध्यते पुनः। भूवाष्पान्मेघनिष्यन्दात् पाकादम्लाजलस्य च । वर्षास्थग्निवले क्षीणे कुप्यन्ति पवनादयः ॥ इति । तेन पित्तकफयोः शरदि वसन्ते च मूर्यासन्तापमात्रस्य प्रेरकखमिव पादृषि वायोः प्रेरका बहवः तथा पित्तकफयोश्च कुपितयोः संसर्ग इति प्राकृषि वातप्राकृता दुःखाः । शरदि पित्तस्यानुबल एकः कफः, तस्यापि प्रेरकः सूर्यासन्तापो नाधिकस्तथा वसन्तेऽपि वातपित्तयोयोः संसर्गेऽपि प्रेरक एक एव सूर्यसन्तापः इति । वसन्तशरदुद्भवाः प्राकृताः ऐकान्त्येन सुखसाध्याः, अनिलजास्तु प्रायेण दुःखाः । प्रायपदेन भूमेलपक्लिनलशीतवातवर्षादीनां प्रेरकाणामल्पत्वे तु ज्वरः सुखसाध्य इति ख्यापितम्। विशिष्टव्याधिषु ज्वरस्य प्राधान्याज्ज्वरमधिकृत्य प्राकृतवैकृतवचनं सर्च सर्वेष्वेव रोगेधूपलक्षणीयमिति । जतूकर्णस्तु। “भवेद वसन्तशरदोः प्राकृतोऽन्यत्र वैकृतः” इति यदुवाच तन्न, प्राकृषि वातप्राकृतखसामान्याभावाभिप्रायेण परन्तु उक्तरूपेण प्रेरकबाहुल्यादनुबन्धबाहुल्याच दुःखसाध्यवात् वातस्येव पित्तकफयोश्च प्राधान्येन प्रकोपात् तद्भवत्वेन कालजो रोगाश्रयो रोग एव स्थूलोऽणुर्वा रोगात् पश्चाजायत इत्युपद्रवसंज्ञः' इति । तन्तान्तरे-- For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy