________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५ अध्यायः
चिकित्सितस्थानम्। २४११ बलवत्स्वल्पदोषेषु ज्वरः साध्योऽनुपद्रवः॥ २३॥ प्रशमा इत्यादिवचनस्य एकैकश इत्यनेन पुनरावृत्त्या चयप्रकोपप्रशमानिरासात् । “प्राटशरद्वसन्तेषु वातपित्तकफैः क्रमात् । प्राकृतः सुखसाध्यस्तु वसन्तशरदुद्भवः” इति। प्रायेणानिलजो दुःखः कालेष्वन्येषु वैकृत इति ख्यापितः । सुश्रुतेऽप्युक्तम्--"इह तु वर्षाशरद्धेमन्तवसन्तग्रीष्मप्रावृषः पड़ ऋतवो भवन्ति दोषोपचयप्रकोपोपशमनिमित्तम्, ते तु भाद्रपदादेन द्विमासिकेन व्याख्याताः ; तद् यथा-भाद्रपदाश्वयुजौ वर्षाः कार्त्तिकमागशीषों शरदित्यादिना द्वाभ्यां द्वाभ्यां मासाभ्यां षड्तूनुक्त्वा वर्षाशरमन्तेषु क्रमात् पित्तस्य चयप्रकोपप्रशमाः कफस्य तु हेमन्तवसन्तग्रीष्मेषु वायोस्तु ग्रीष्मप्राड्वासु यथा भवन्ति तत् कारणोपदेशेन व्याख्यातम् । प्रकोपणव्याख्याने तु–“स शीताभ्रप्रवातेषु घन्तेि च विशेषतः। प्रत्यपस्यपराहे च जीर्णऽन्ने च प्रकुप्यति ॥ तदुष्णरुष्णकाले च मेघान्ते च विशेषतः। मध्याह्न चार्द्धरात्रे च जीर्यत्यन्ने च कुप्यति ॥ स शीतैः शीतकाले च वसन्ते च विशेषतः। पूर्वाह्न च प्रदोषे च भुक्तमात्रे प्रकुप्यतीति पुनर्यदुक्तं तत् कालप्रकृत्या चयं विना प्रकोपाभिप्रायेण, अत्र तु कालप्रकृत्या चयपूर्वका दोषप्रकोपजाता रोगाः प्राकृता न तु दोषकोपाजाता इति। तेह्यन्येषु शरवसन्तप्राइभिन्नेषु पञ्चस्तृतुषु हेमन्तवसन्तग्रीष्मपाड़ वर्षासु स्वकारणकुपितात् पित्ताजाताः, ग्रीष्मप्राड़ वर्षाशरद्धेमन्तेषु तु स्वहेतुकोपात् कफाजाताः, वर्षाशरद्धेमन्तवसन्तग्रीष्मेषु स्वनिदानकुपिताद वाताजाताच रोगा वैकृताः ते च दुःखाः प्रायेण भवन्ति । हेतव इत्यादि ॥२२ ।।
गङ्गाधरः-तत्र सुखसाध्यलक्षणमाह-बलवत्खित्यादि। अल्पदोषेषु बलवतसु जनेषु धरः सुखसाध्यः, एवंभूताश्च सवें प्रायेण सुखसाध्या भवन्ति। इति सर्वपा रोगाणां स्वस्वाधिकारे प्रायशब्दार्थ सुखसाध्यलक्षणेन विवरीष्यते स्वयमेव। ननु शरदि बहुकारणकुपितात् पित्तात्, वसन्ते च बहु. कारणकुपितात् कफात्, प्रापि च बहुनिदानकुपिताद् वाताद यदि रोगा
अथ वैकृतस्य ज्वरस्य को हेतुरित्याह-हेतव इत्यादि। अन्ये तु ब्रुवते-वर्षाकाले वातजोऽपि प्राकृतः, किन्त्वयं कृच्छ्रः, वसन्तशरद्धवस्तु प्राकृतः सुखसाध्यो भवतीति विशेषः । तथाच वाग्भटेन, “प्राकृतश्चानिलोद्भवः" इति कृतमिति ॥ २२ ॥
चक्रपाणिः-बलवस्वित्यादिना साध्यज्वरविवरणम् ; ज्वरोपद्रवा यद्यपि साक्षान्न पठिताः, तथापि सामान्योपद्रव उक्तलक्षणयुक्ता रोगाः ; इह यदुक्तम् 'उपद्रवस्तु खलु रोगो रोगान्तर
For Private and Personal Use Only