________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४१०
चरक-संहिता। (ज्वरचिकित्सितम् कालप्रकृतिमुद्दिश्य निर्दिष्टः प्राकृतो ज्वरः। प्रायेणानिलजो दुःखः कालेष्वन्येषु वैकृतः। हेतवो विविधास्तस्य निदाने संप्रदर्शिताः ॥ २२ ॥ गङ्गाधरः-ननु प्राकृतसंज्ञेयं किं प्राणिनां प्रकृतिभूतदोषजत्वेनाथवा वातादीनां प्रकृत्यवस्था प्रकृतिस्तज्ज्वरः प्राकृतः किं वान्यथेति चेत् तत्राहकालप्रकृतिमित्यादि। कालस्यत्तरूपस्य प्रकृति स्वभावमुद्दिश्य प्राकृतो ज्वरो निर्दिष्टः न तु पुरुषाणां दोषप्रकृतिमुद्दिश्य न वा सुखसाध्यपरत्वेन । ननु प्राकृतत्वं ज्वरस्य कालप्रकृत्या कुपितदोषजत्वं तत् किं कालप्रकृतितः कुषितदोषः प्रकृतिस्तज्जातत्वं प्राकृतत्वं तच्चेदिष्टं तदा कालान्तरस्यापि प्रकृत्या दोषः कुप्यति तदोषजोऽपि प्राकृतो न किं भवतीत्यत आद–प्रायेणेत्यादि । अनिलजः प्राकृतो निखिलो व्याधिः प्रायेण दुःखः कष्टसाध्यः। प्रायशब्देनानिलजः प्राकृतो ज्वरः सुखः। कालेष्वन्येषु हिमादिषु शरद्वसन्तप्राट्सु च निदानोक्तकारणकुपितदोषजो व्याधिकृतः सोऽपि दुःखः।।
ननु कियन्तःशिरसीयेऽप्युक्तम् । “चयप्रकोपप्रशमाः पित्तादीनां यथाक्रमम् । भवन्तरकैकशः पटसु कालेष्वभ्रागमादिषु। गतिः काल कृता चैपा चयाद्या पुनरुच्यते” इति, तेन यथा पित्तस्य वर्षासु चयः शरदि प्रकोपः शीते प्रशमस्तथा कफस्य शीते चयो वसन्ते प्रकोपो ग्रीष्मे प्रशमस्तथा वायोग्रीष्मे चयः प्राषि प्रकोपो वर्षासु प्रशमः इति यत्, पित्तस्य वसन्ते चयो ग्रीष्मे प्रकोपः प्राषि प्रशमस्तथा कफस्य प्राषि चयो वर्षासु प्रकोपः शरदि प्रशमः तथा वायोः शरदि चयः शीते प्रकोपो वसन्ते प्रशम इत्यपि कालप्रकृति श्यते, ततः किं ग्रीष्मवर्षाशीतभवाः पित्तकफवातजाः प्राकृता न भवन्तीति चेत्, न ; चयप्रकोप
चक्रपाणिः-कालप्रकृतिमुद्दिश्य निर्दिष्टः प्राकृतो ज्वर इति प्राकृतज्वराधिकारपरिभाषा । कालप्रकृतिमिति कालस्वभावसम्बन्धं दोषम् ; उद्दिश्येति कारणत्वेन लक्ष्यीकृत्य। नन्वेवमपि वर्षाकालप्रकृतिना वातेन कृतो ज्वरः प्राकृतः स्यादित्याह-प्रायेणानिलजो दुःख इति, अनिलजो ज्वरो वातप्रकृतिसमानोऽपि दुःखो भवति विरुद्धोपक्रमत्वात् । यतः ज्वरस्यामाशयोत्थत्वेन लङ्घनादि पथ्यम्, तच्च वायोरपथ्यमिति विरुद्धोपक्रमत्वाद् दुःखत्वेन न प्राकृतत्वं वातिकस्य । यतः प्राकृतत्वेऽपि यः सुखसाध्यः, स एव प्राकृत उच्यत इति भावः। एवं तावत् सो वातजो वैकृतः, तथा वसन्तशरव्यतिरिक्तकालभवः कफजस्तथा पैत्तिकोऽपि वैकृत एवेति दर्शयमाह - कालेष्वन्येषु वैकृत इति। कफजः पित्तज इति शेषः ।
For Private and Personal Use Only