________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
२४०६
चिकित्सितस्थानम्। तस्माद् वसन्ते कफजो ज्वरः समुपजायते। आदानमध्ये तस्यापि वातपित्तं भवेदनु॥ आदावन्ते च मध्ये च ज्ञात्वा दोषबलाबलम् । शरद्वसन्तयोविद्वान् ज्वरस्य प्रतिकारयेत् ॥ २१॥
च मधुराभिरोषधिभिः नवान्नादिभिश्चितः सञ्चितः कफः स वसन्ते सूय्यसन्तप्तः सूर्यतापेन घृतवत् विलायितः सन् प्रकुप्यति। ततः प्रसरणात् तस्य तद्रपेण वसन्ते कफकोपादादानमध्ये वसन्ते कफजो ज्वरः समुपजायते। वसन्तो ह्यादानमध्यम ऋतुः सूय्येकरसहस्रण प्राणिनां स्नेहादानतो मध्यमत्वेन मध्यबलखात् रौक्ष्योष्णप्राभ्यां तस्यापि ज्वरस्यानु अनुबन्धरूपं वातपित्तं भवेत्। तत्र प्राणिनां मध्यमबलत्वेन वातपित्तानुबन्धत्वेन लङ्घनसाध्यकफस्य प्रतिकारार्थ लङ्घनं बलाविरोधेन विधातु नातिभयमित्यतः कफजप्राकृतो ज्वरः सुखसाध्यः।
नन्वेतयोः प्रतिकारं कथं कुर्य्यादित्यत आह-आदावित्यादि। विद्वान् वैद्योऽस्य प्राकृतस्य ज्वरस्य शरद्वसन्तयोरादौ वाप्यन्ते वा मध्ये वा जातस्य आरम्भकदोषबलाबलं ज्ञाखा प्रतिकारयेत्। शरद्वसन्तयोराद्यन्तमध्यजातत्वेन ज्ञानाद्धि पुरुषस्य दोषस्य च बलाबलज्ञानं भवति। यथा शरदः प्रथमभागे प्राणिनां बलं तथा वसन्तान्तभागे, यथा शरदोऽन्तभागे तथा वसन्तादिभागे, मध्ये द्वयोस्तुल्यं तयोट द्धिहासाभ्यां बलस्यारम्भात् ॥२१॥
भयं न भवति ; विसर्गो हि सौम्यः स्निग्धः, तत्र बलवन्तः पुरुषाश्च ; तेन तलोत्पन्नो ज्वर आमाशयसमुत्पन्नत्वेन लङ्घनार्हो लङ्घनीय एव। किंवा प्रकृत्यैव विसर्गाच्चेति पाठः । तदा प्रकृत्येति ज्वरकारणेन कफपित्तरूपेण लङ्घनहेतुना, तथा विसर्गाच्च कालात् । लङ्घने भयं नास्ति, उक्तं हि-'कफपित्ते द्रवे धातू सहेते लङ्घनं महत्" इति। हेमन्ते चितः कफो वसन्ते कुप्यतीति युक्तमेव, यतः दोषचयादिक्रमः शिशिरे नास्त्येव ; आदानमध्ये तस्यापि वातपित्तं भवेदनु इति तस्यापि वसन्ते कफचरस्य वातपित्तमनु अनुबन्धरूपं भवेत्, तदा वसन्तादौ दुब्बलं वातपित्तम्, मध्ये तु मध्यम्, अन्ते तु प्रबलं भवति। एवं शरद्यपि कफो भवति। तदैतान् विशेषान् बुद्धा चिकित्सा कर्त्तव्येति दर्शयन्नाह- आदावित्यादि। शरवसन्तयोरादौ मध्ये चान्ते च ज्वरस्य दोपबलाबलं बुद्धति योजना ॥ २१॥
For Private and Personal Use Only