SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्विरचिकित्सितम् २४०८ चरक-संहिता। वर्षास्वम्लविपाकाभिरद्भिरोषधिभिस्तथा। सञ्चितं पित्तमुद्रिक्त शरद्यादित्यतेजसा । ज्वरं संजनयत्याशु तस्य चानुबलः कफः । प्रकृत्यैव विसर्गाच्च + तत्र नानशनाद भयम् ॥ अद्भिरोषधिभिश्चैव मधुराभिश्चितः कफः। हेमन्ते सूर्यासन्तप्तः स वसन्ते प्रकुप्यति ॥ ननु कथं पूर्व संवृद्धं पित्तं ज्वरयतीत्यत आह-वर्षास्वित्यादि । वर्षासु भूवाष्पादिना कालस्वभावेन अम्लविपाकाभिरद्भिः तथाम्लविपाकाभिरोषधिभिराहारद्रव्यजातिभिः उष्णादुष्णं पित्तं सञ्चितं भवत् शरदि आदित्यतेजसा उष्णेन सामान्यादुद्रिक्तं कुपितं सत् आशु ज्वरं संजनयति, तस्य चानुवलोऽनुबन्धरूपो भवति कफः। कालस्वभावात् वायोः प्रशान्तखात् कफस्य च चयारम्भात् कफ एवानुबध्यते न तु वायुरित्यर्थः । नन्वित्थं शरदुद्भवः प्राकृतः पैत्तिको ज्वरः कथं सुखसाध्य इत्यत आहपकृत्यैवेत्यादि। तत्र शरदि प्राकृत ज्वरे प्रकृत्या ज्वरारम्भकयोः पित्तकफयोः द्रवस्वभावेन शरद ऋतोविसर्गाच्च सोमस्याव्याहतबलेन प्राणिनामुपचितबलतयाप्याय्यमानखाच्च। अनशनाल्लङ्घनान भयं कफपित्तहरणौषधेषु श्रेष्ठतमखाल्लङ्घनस्य यथेष्टविधेयत्वेन सुखेनैव शरदुद्भवः प्राकृतज्वरः साध्यते इति भावः। ननु वसन्तोद्भवः कफज्वरश्च कथं सुखसाध्यः स्यादित्यत आह-अद्भिरित्यादि। हेमन्ते शीते मधुराभिर्मधुरपाकाभिर्मधुररसाभिश्चाद्भिस्तथा रसे पाके ननु यदि वर्षास्वम्लविपाकित्वं सर्वासामोषधीनाम्, तदा प्रतिद्रव्याभिहितविपाकस्याव्यवस्था स्यात् तस्य कालवशेनाम्लत्वदर्शनात् ; मैवम् , यथानिष्ठापाकेन यन्मधुरं द्रव्यं तद् यथा आवस्थिकेन पाकेनाम्ल भवति, यदुक्तं “परन्तु पच्यमानस्य विदग्धस्याम्लभावता" इत्यादिना, तथेहापि कालमहिनाम्लविपाकित्वमपि भविष्यति । एवं हेमन्ते यन्मधरपाकित्वमोषधीनाम्, तत्रापि व्याख्येयम् । अन्ये तु वर्षासु वह्निमान्द्याद् विदाहनिमित्तमोषधीनामम्लविपाकित्वमिति ब्रु वते ; यदुक्तं "वर्षासु विदहत्यन्न तथा सर्वमेवाम्लं प्रायो यस्य विदह्यते” इति ; एवमपि तैहेमन्तेन मधुरपाकित्वमुक्तमेव । तस्मात् कालमहिम्नैव पाकान्तरमोषधीनां साधु । आश्विति । पित्तस्याशुकारित्वाच्छीघ्र जनयति। अनुबल इति अनुबन्धनरूपः कफो भवति। एवं ज्वरस्य लङ्घमीयतामाहप्रकृत्यैवेत्यादि । विसर्गस्य प्रकृत्येति विसर्गरूपकालजया प्रकृत्या सौम्यादिरूपयानशनाद * उक्लिष्टमिति वा पाठः। + विसर्गस्य इति पाठान्तरम् । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy