________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३य अध्यायः ]
चिकित्सितस्थानम् ।
प्राकृतः सुखसाध्यस्तु वसन्तशरदुद्भवः । कालप्रकृतिमुद्दिश्य प्रोच्यते प्राकृतो ज्वरः ॥ २० ॥ उष्णमुष्णेन संवृद्धं पित्तं शरदि कुप्यति । चितः शीते कफश्चैवं वसन्ते समुदीर्य्यते ॥
Acharya Shri Kailassagarsuri Gyanmandir
२४०७
अन्तगोक्तानां
तृष्णाप्रलापश्वसनभ्रमसन्ध्यस्थिशूलास्वेददोषवञ्चविनि
ग्रहाणां मार्दवमल्पत्वम् । सुखसाध्यत्वमेव चेत्यनेनान्तव्वेंगस्य दुःखसाध्यखमिति ख्यापितम् ।। १९ ।
गङ्गाधरः- क्रमिकखात् प्राकृतो वैकृतश्चैवेति यो द्विविधज्वर उक्तस्तव द्वयं भाष्येण विवृणोति - प्राकृत इत्यादि । सुखसाध्यस्तु प्राकृतो वसन्तशरदुद्भवो निखिलो व्याधिः । ननु तत्र कथं वसन्तशरदुद्भवो ज्वरः स्यादित्यत आहकालप्रकृतिमुद्दिश्य प्राकृतो ज्वरोऽत्र प्रोच्यते ॥ २० ॥
गङ्गाधरः - ननु कथं ज्वरो निर्देष्टव्यो भवतीत्यत आह- उष्णमित्यादि । पित्तमुष्णं पूर्व्वं वर्षासु संवृद्धं सञ्चितमुष्णेनोष्णेनाहारेण च संवृद्धं शरदि प्रकुप्यति । कफश्च शीतः शीते तु काले कालस्य शीतस्वभावेन शीताहारेण च चितः सञ्चितः सन् वसन्ते सूर्यसन्तापेन विलयनात् समुदीर्यते प्रकुप्यति ।
For Private and Personal Use Only
चक्रपाणिः - प्राकृत इत्यादिना प्रकरणेन प्राकृतवैकृतविवरणम् । तत्रह कालस्वभावप्रकुपित्तदोषः प्रकृतिरुच्यते, तज्जातीयाच्च दोषादुद्भूतो ज्वरः प्राकृत उच्यते । यद् वक्ष्यति - "कालप्रकृतिमुद्दिश्य निद्दिष्टः प्राकृतो ज्वरः" इति । एवमपि वर्षाकालप्रकृतिभूतेन कृतो ज्वरः प्राकृतः स्यादिति । तनिषेधायाह – “मुखसाध्यस्तु वसन्तशरदुद्भवः” इति । तु-शब्दो अवधारणे । तेन य एव सुखसाध्यः वसन्तशरदुद्भवः प्राकृतः, स एवेह 'प्राकृत' शब्देनोच्यत इत्यर्थः । वर्षांकालभववातिस्तु न सुखसाध्य इति, तेन नासौ प्राकृत उच्यते । प्राकृतवैकृतसंज्ञाव्यवहारो हि यथाक्रमं सुखसाध्यासाध्यबोधप्रयोजनकः । तद् यदि कृच्छ्रेऽपि वातजे प्राकृतत्वं स्यात्, तदा किं प्राकृतव्यवहारेण ? यतश्च वसन्तशरकुञ्जवावेव प्राकृतौ, तेन तयोरेव 'उष्णम्' इत्यादिना ग्रन्थेन विवरणं प्रपवन करिष्यति न वातिकस्येति । अतार्थे जतूकर्णे- "सौम्याग्नेयौ उष्णशीतकामी, जीर्णस्त्रयोदशे दिवसे, वसन्तशरदोः प्राकृतोऽन्यख वैकृतः” इति । यद्यपि वसन्तजः पूर्व्वमुक्तः, तथापि प्रतिलोमव्याख्यया 'उष्णम्' इत्यादिना शरदुद्भवं निर्दिशति । उष्णं पित्तं चितं वर्षासु शरदुदीर्णेनातपेन कुप्यतीति विज्ञेयम् । शीत इति हेमन्ते । उष्णमित्यादिना निर्दिष्टस्य । वर्षास्वित्यादि भाष्यम् ।