________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४०६
चरक-संहिता। (ज्वरचिकित्सितम् योगवाहः परं वायुः संयोगादुभयार्थकृत् । दाहकृत् तेजसा युक्तः शीतकुत् सोमसंश्रयात् ॥ १८॥ अन्तर्दाहोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः। सन्ध्यस्थिशूलमस्वेदो दोषव)विनिग्रहः ॥ अन्तवेंगस्य लिङ्गानि ज्वरस्यैतानि लक्षयेत् ।। सन्तापोऽभ्यधिको वाह्यस्तृष्णादीनाञ्च माईवम् । बहिब्वेंगस्य लिङ्गानि सुखसाध्यत्वमेव च ॥ १६ ॥ गङ्गाधरः-ननु रुक्षः शीत इत्यादिना वायुः शीत उक्तस्तत् कथं वातपित्तात्मकः शीतमिच्छेद वातकफात्मकस्तूष्णमिच्छेदित्यत आह-- योगवाह इत्यादि। योगं येन सह वायोः संयोगस्तस्य गुणानुरूपेण गुणं वहतीति योगवाहस्तस्मात् संयोगात् उभयार्थकृत् दाहशीतोभयकत् सम्भवति। तद् भाष्येण विवृणोति–दाहकृदित्यादि। वहिश्वरोऽपि वायुरनुभूयते तेजसा यदा युक्तो वाति तदा उष्णकृत् सोमसंश्रयात् जलादिसोम्यभावेन यदा युक्तो वाति तदा शीतकृदिति। तथान्तश्चरोऽपीति भावः। एषां लक्षणानि अष्टविधत्वविवरणेन वाच्यानीत्यतोऽत्र नोक्तानि ॥१८॥
गङ्गाधरः-अथान्तर्वहिबॅगयोर्लक्षणान्याह--अन्तर्दाह इत्यादि। अधि. कोन्तः शरीराम्यन्तरे दाहः। दोषाणां पित्तादीनां वर्चसश्च। तेषां विनिग्रहोऽप्रवृत्तिः। मूत्रस्य तु प्रवृत्तिन प्रतिपिद्धा। अत ऊर्द्ध वहिवेंगस्य सुखसाध्यत्ववचनादस्य कष्टसाध्यत्वं ख्यापितम्। सन्ताप इत्यादिना वहिबेंगस्य लक्षणम्। वाह्यः सन्ताप उत्तापोऽत्यधिकस्तृष्णादीनाम्
चक्रपाणिः-वातपित्तज्वरे शीताभिप्रायतामुपपादयितुं वायोर्योगवाहितामाह-योगवाह इत्यादि। योगा योगिनो गुणं वहतीति योगवाहः। परमत्यर्थम् । संयोगादिति उष्णेन शीतेन च संयोगात्। उभयार्थकृदिति यथासंख्यमिह उष्णशीतार्थकारी। एतदेव विभजते-दाहकृत्इत्यादि। पित्तेन' इति वक्तव्ये यत् 'तेजसा' इति करोति, तेन वाह्य नाप्यातपादिना युक्तो वायुर्दाहं करोतीति लोकप्रसिद्धमर्थ दृष्टान्तार्थ मूचयति । शीतकारित्वन्तु वायोः शीतत्वेनैव यत् सिद्धं, तत् सोमरूपकफपानीयादियोगाद विशेषेण भवतीति ज्ञेयम् । अन्तर्वाह इत्यादिना अन्तर्खेगवहिबेंगविवरणम् ॥ १८ ॥ १९॥
For Private and Personal Use Only