________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
चिकित्सितस्थानम् । २४०५ वातपित्तात्मकः शीतमुष्णं वातकफात्मकः । इच्छत्युभयमेतत् तु ज्वरो व्यामिश्रलक्षणः ॥ १७॥
गङ्गाधरः-सौम्याग्नेयखभेदेन द्विधा तु ज्वरस्य यदुक्तं तयोराग्नेयः शीतेच्छया सौम्य उष्णेच्छया ज्ञेयः किं शीतभवः सौम्य उष्णभव आग्नेय इत्युभयथापि यदीष्टः स्यात् तदा वातात्मकः शीतभव उष्णमिच्छत्याग्नेयश्च पित्तात्मक उष्णभव शीतमिच्छतीति सौम्यश्च कफात्मकः शीतभवत्वेन उष्णमिच्छतीति भवतु वातपित्ताद्यात्मकास्तु के इत्यतः सौम्याग्नेयज्वरं भाष्येण लक्षणेन च विवरीतुमाह-वातपित्तेत्यादि। वातात्मकादीनामुक्तरूपेण सुगमत्वात् सौम्याग्नेयत्वं नोपदी वातपित्तात्मकादः सौम्यत्वं किम् औषण्यत्वमिति सन्देहः स्यात् तत्राह-वातपित्तात्मकः ज्वर उष्णभवत्वेन शीतमिच्छतीति न सौम्यः, कारणत आग्नेयः। एवं वातकफात्मकस्तु ज्वरः शीतभवत्वेन सौम्य उष्णमिच्छतीति नाग्नेयः, कारणतः सौम्य इति। व्यामिश्रलक्षणः पित्तकफात्मकः सन्निपातात्मकश्च एतदुभयं शीतोष्णं द्वयमेवेच्छतीति सौम्याग्नेय उच्यते न त्वधिकः प्रत्येकतो हि भेदो न समुदायस्थ, यथा नपुसकस्य द्विरेतस्त्वं न तु शुक्रशोणिताभ्यामधिकमस्य किश्चिद रेतोऽस्तीति ॥१७॥
चक्रपाणिः-सौम्याग्नेयभेदयोः प्रतिलोमव्याख्याक्रमेण विवरणम्-वातपित्तात्मक इत्यादि। वातपित्तात्मक इति वातपित्तकारणकः। अनच केवलवातारब्धः, तथा केवलकफारधश्च शीतस्वभावकारणतया सौम्येनोष्णमिच्छति, तथा वातकफात्मकोऽप्युपलभ्यते। तथा केवलपित्तात्मकोऽपि आग्नेयत्वादनुष्णाभिप्राय इति वक्तव्यम् । तेन इदानीं वातपित्तात्मकः शीतेन वातेन पित्तेन चोष्णेन कृतः, तस्य दुरुपपन्नायामाग्नेयतायां ब्रुवते- वातपित्तात्मक इति। एवंव्यवस्थितवातपित्तज्वरे चेद् वायुः संयोगमहिम्ना विपरीतानुकारी दृष्टः, तत् फफसंयुक्तोऽपि वायुः किं विपरीतमर्थं करोतीत्याशङ्कयाह-उष्णं वातकफात्मक इति। वातकफात्मको विशेषेणोष्णमिच्छतीत्यर्थः। व्यामिश्रलक्षण इति उक्तव्यामिश्रदोषलक्षणज्वरव्यतिरिक्तः कफपैत्तिकः सान्निपातिकश्च, स चोष्णशीताभिप्रायतया सौम्याग्नेयज्वरद्वयातिरिक्त एव ज्वरः, यथा-अङ्ग लीद्वयव्यतिरिक्त न्यङ्ग लम् ; एवं शारीरमानसमिश्रीभावेऽपि चिन्तनीयम्। ज्वर इच्छतीति वचनं ज्वरयुक्तपुरुषेच्छया ज्वरे उपचाराज ज्ञेयम् ॥ १७ ॥
For Private and Personal Use Only