________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४०४
चरक-संहिता। (ज्वरचिकित्सितम् मानससन्तापलक्षणः सन्नपि यः पूर्वं देहे जायते स शारीरः, यस्तु प्रर्व मनसि जायते स मानस इति भेदः। तथा च शोकादिजो ज्वरः पूर्व मनसि भूला पश्चानिजैर्दोषैरनुबन्धो हि शारीरो भवति। वातादिजो दण्डाद्यभिघातादिजश्च पूर्व दहे भूला पश्चान्मानसदोषैरनुबन्धो मानसं सन्तापं जनयतीति समनस्कं कृतन शरीरं ज्वरस्याधिष्ठानमुक्तं न तु प्रत्येकमिति। ननु किं किं मनसः सन्तापक्षाने लक्षणमित्यत आह-वैचित्त्यमित्यादि। बैचित्त्यमन्यविषयचिन्ताकुलत्वं मनसः, अरतिमेनसोऽनवस्थितत्वम्, ग्लानिरहर्षः, तैरनुमीयते मनःसन्तापः। इति त्रयं मनःसन्तापस्य लक्षणमनुमानकरणमित्यर्थः । ननु चेन्द्रियदेहसन्तापलक्षणं किमित्यत आह–इन्द्रियाणाञ्च इत्यादि। इन्द्रियाणां वैकृत्यं विकृतखमिन्द्रियसन्तापलक्षणं श्रवणदर्शनस्पर्शनस्वादना घ्राणगमनादानमेहनोत्सगेवाचां शङ्खादिवानाध्यानाश्रवणादि पीतशुक्लादिदर्शनादर्शनादि स्पशेसुरवेन सुखं स्पर्शासुखेनासुखमित्यादि स्वाद्वास्वादुतादि शुभाशुभगन्धान्यथाखादि इत्येवमादिभिर्वकृतैरनुमीयते श्रोत्रादीन्द्रियाणां सन्तापः, एवं देहे वैकृतत्वं कुशवस्तम्भवोष्णवशीतखादिकं देहे सन्तापलक्षणम् । तहानुमीयते देहे सन्ताप इति देहेन्द्रियसन्तापः शारीरो ज्वरः। पूर्व देहे देहेन्द्रियेषु जायते देहेन्द्रियाणां समुदायो हि देह उच्यते। ननु तहि कथमिन्द्रियाणां देहस्य च पृथक् सन्तापलक्षणमुच्यते निदानस्थाने देहेन्द्रियमनरतापकरः इत्युक्तं, प्रश्नश्च देहेन्द्रियमनस्तापीति, तथा ज्वरस्य चात्मलक्षणं वक्तुमहसीतिप्रश्नोत्तरे तु सन्तापो देहमानस इत्युक्तमतो विरोधाशङ्का सम्भवति तन्निरासार्थमिन्द्रियाणां सन्तापलक्षणमाह-इन्द्रियाणाञ्चेत्यादि। इन्द्रियाणां वैकृत्यमिन्द्रिये दहे च वैकृत्यं देहे च सन्तापलक्षणं देहसन्तापेन्द्रियसन्तापो मनःसन्तापलक्षणचोपदर्शितमेतन्त्रिक एकः शारीरो ज्वरः ख्यापित इति भावः ॥१६॥
भवतीति ज्ञेयम् । एवञ्च यद्यपि सर्वज्वराणां देहमनोऽधिष्ठानत्वम्, तथापि यो देहाश्रयी प्रथम शरीरदोषेण बलवता प्रारब्धः स्यात्, स तद्दोषचिकित्सयैव चिकित्स्यः, एवं मानसोऽपि मानस दोषचिकित्सयैव चिकित्स्य इति दर्शयितु शारीरमानसभेदोपदर्शनं साधु। ननु शारीरस्य ज्वरस्य सन्तापलक्षणं व्यक्तम् , मानसस्य तु ज्वरस्य कथं सन्तापः यत् तस्य लक्षणं भवतीत्याह-वैचित्यम् इत्यादि। वैचित्त्यादयो ‘मानससन्ताप'शब्देनीच्यन्ते, 'ताप'शब्दस्य 'पीड़ा'वचनत्वादित्यर्थः । मनस्तापप्रस्तावेन, 'देहिन्द्रियमनस्तापी' इत्यत्र य इन्द्रियतापो ज्वरस्योक्तः, स च व्याचक्ष्यतेइन्द्रियाणाम्चेत्यादि । वैकृत्यमिति स्वभावान्यथात्वम्, तच्चार्थाग्रहणाद्यनुमेयम् ॥ १६ ॥
For Private and Personal Use Only