________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः चिकित्सितस्थानम् ।
२४०३ पुनराश्रयभेदेन धातूनां सप्तधा मतः। भिन्नः कारणभेदेन पुनरष्टविधो ज्वरः॥ १५ ॥ शारीरो जायते पूवं देहे मनसि मानसः॥ वैचित्त्यमरतिमा॑निर्मनसस्तापलक्षणम् ।
इन्द्रियाणाश्च वैकृत्यं देहे सन्तापलक्षणम् ॥ १६ ॥ दृष्टः। किं पञ्चविधं इत्यत आह–सन्तत इत्यादिनामकः। पुनश्चाश्रयभेदैन रसादिसप्तधातुगतत्वेन सप्तविधः। पुनः कारणभेदेन वातपित्तकफ-वातपित्तवातकफ-पित्तकफ-सन्निपातागन्तुभेदात् अष्टविधो ज्वरः। तत्र निजः सप्तविधः आगन्तुज एकविध आगन्तुसामान्यात् ॥१५॥
गङ्गाधरः-ननु देहमानससन्तापलक्षणो ज्वर उक्तस्तस्य शारीरखमानसत्वे को भेद इत्याकाङ्क्षायां कृतस्य पृथग भिन्नस्य चाकृतिं वक्तुमर्हसीत्यस्य प्रश्नस्य उत्तरं वक्तु शारीरमानसज्वरलक्षणमाह-शारीर इत्यादि। ज्वरो देहदोषकालबलाबलाद ये ज्वरा भवन्ति, ते पञ्चविधा एवेति वाक्यार्थः। दोषकालबलाबलादिति दोषकृतात् कालबलाबलात्। कालबलाबले ज्वरकालप्रकर्षाप्रकर्षों । तत्र सन्तते ज्वरे बलवता दोषेण सप्ताहादिप्रकृष्टत्वाद् बलवान् कालो नियम्यते, सततके तु सन्ततकालापेक्षया हीनबलेन दोषण अबलो ज्वरकालः ; स ह्यहोरात द्विकालेनाव व्यापको भवति । तथा अयमेव सततज्वरकालो हीनबलकालान्येयष्कापेक्षया बलवान् भवति । एवमन्येयष्कादिज्वरकालोऽपि व्याख्येयः। किंवा, दोषकालो दुष्टिकालः ज्वरकाल इत्यर्थः, अस्य बलाबलात् प्रकर्षाप्रकादित्यर्थः। कालप्रकर्षाप्रकर्षनियमाश्च व्याख्याता एव । अन्ये तु दोषश्च कालश्च दोषकालौ, तयोर्बलाबलादिति वदन्ति । तत्र दोषबलात् कालबलाच्च सन्ततो भवति, यदुक्तम् – “कालदृष्यप्रकृतिभिर्दोषस्तुल्यो हि सन्ततम्" इत्यादिना दोषकालबलञ्च विवरणग्रन्थेनोक्तम्, तथा दोषस्याबलत्वञ्च सप्रत्यनीकतया सततकादिषु भवति, तथा ज्वरवेगविगमे च सततकादौ कालस्याबलत्वं भवति । अत्र पक्षे दोषकालबलाबलाभ्यां सर्वज्वरा व्याप्यन्ते। ततश्च सन्ततादिपञ्चज्वरनियमो दुर्घटः स्यात् । अन्ये तु व्युत्क्रमाभिधानेन 'दोषबलाबलकालात्' इति कृत्वा व्याख्यानयन्ति ; एतच्चाशब्दं व्याख्यानम् । तृतीयकचतुर्थकाविति समासनिर्दे शेन तृतीयकचतुर्थकयोरागन्त्वनुबन्धत्वादिसाधारणधर्मयोगितां दर्शयति ॥ १५ ___ चक्रपाणिः- "पृथभिन्नस्य चाकृतिम्” इति प्रश्नस्य क्रमागतमुत्तरं शारीर इत्यादि। पूर्वमितिवचनादुत्तरकालं शारीरो ज्वरो मनस्यपि भवति, एवं मनस्युत्पादानन्तरं देहेऽपि
For Private and Personal Use Only