________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[उवर्राकित्सितम्
२४०२
चरक-संहिता। द्विविधो विधिभेदेन ज्वरः शारीरमानसः। पुनश्च द्विविधो दृष्टः सौम्यश्चाग्नेय एव च ॥ अन्तब्वेंगो वहिब्वेंगो द्विविधः पुनरुच्यते। प्राकृतो वकृतश्चैव साध्यश्चासाध्य एव च ॥ पुनः पञ्चविधो दृष्टो दोषकालबलाबलात् । सन्ततः सततोऽन्या स्तृतीयकचतुर्थको । गङ्गाधरः-अथ ज्वरस्य व्यासतो विधिभेदश्च वक्तुमर्हसीति प्रश्नोत्तरमाहद्विविध इत्यादि। निदानस्थाने ज्वरस्त्वेकविध एवेत्यादिना यो यो विधिभेद उक्तस्ततो विवरणविधिभेदखात् शारीरमानस इत्यादिविधिभेदो न विरुध्यते । अत्र मानसः समनस्कशारीरो न तु मानसदोषमात्रजाः कामक्रोधादयः परन्तु शोकादिज इति। तथा कुत्र च एक एव खलु देहमानसः सन्तापलक्षणो ज्वरः शीताभिप्रायो दाहज्वरः, उष्माभिप्रायः शीतज्वर इति द्विविधो निजश्चागन्तुजश्चेति द्विविधश्च । तत्र पुनर्निजं द्विविधमुवाच तस्येदं विवरणं शारीरं निजं मानसश्च निजमिति द्विविधं, सौम्यमाग्नेयश्च शारीरमिति द्विविधम्, अन्तर्वगो वहिबेंगश्चेति द्विविधञ्च, प्राकृतं शारीरं वैकृतश्च शारीरमिति द्विविधं, साध्यश्च शारीरमसाध्यश्च शारीरमिति द्विविधम् । एवमागन्तुजोऽपि शारीरो दण्डादाभिघातादिजः शोकादिजस्तु मानसशारीरः। कामशोकादिजश्व वातानुबन्धखात् सौम्य आगन्तुजः। क्रोधादिजश्चाग्नेय आगन्तुजः पित्तानुबन्धखात् । तथान्तर्ध्वगो वहिबेंगश्च । तथा प्राकृतो वैकृतश्च । तथा साध्यश्चासाध्यश्चेति। त्रिविधं निजं ज्वरं तत्र विधृतवानहमने एकदोषजद्विदोषजत्रिदोष जभेदात्। चतुर्विधश्च ज्वरं तत्र विकृतवानहं साध्यासाध्यमूदुदारुणभेदात् सुखसाध्यकृच्छसाध्ययाप्यासाध्यप्रत्याख्येयभेदाच्च। पुनदोषबलेन कालबलात् दोषाबलेन कालाबलाच्च भेदात् पञ्चविधो ज्वरो
चक्रपाणिः-द्विविध इत्यादिना विधिभेदमाह। एते च भेदा विवरणे व्यक्ता भवन्ति । सौम्य इति शीतकारणारम्भत्वेन सोमदेवताकः। आग्नेयोऽप्युष्णकारणारम्भत्वेनाग्निदेवताकः । पुनः पञ्चविधो दृष्ट इत्यस ने पञ्चविधेन भेदेन सर्वज्वरय्याप्तिः ; यतः प्रायशः सन्निपातेन दृष्टः पञ्चविधो ज्वर इति च वक्ष्यति । ततश्च केवलवातादिज्वराणां न सन्ततादिभेदेन ग्रहणम्, तथा सन्ततादीनां कालनियमो वक्तव्यः। ततश्च ये कालानियताः ते सन्ततादिभिसा एव। तस्माद
For Private and Personal Use Only