________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
३य अध्यायः ] चिकित्सितस्थानम् ।
२४०१ ज्वरप्रात्यात्मिकं लिङ्ग सन्तापो देहमानसः। ज्वरेणाविशता भूतं न हि किञ्चिन्न तप्यते ॥ १४ ॥
गङ्गाधरः-अथास्य लक्षणं ज्वरस्य वक्तुमईसीति प्रश्नोत्तरमाह-ज्वर इत्यादि। आत्मा आत्मा इति प्रत्यात्म तस्येदं प्रात्यात्मिकम्। प्रतिज्वरं यल्लिङ्गं सर्वत्र देहमानसः सन्तापः ज्वरस्यात्मलक्षणमित्यर्थः। ननु देहमानसः सन्तापो व्यभिचरतीत्यत आह-ज्वरेणेत्यादि। भूतं प्राणिनमाविशता ज्वरेण हि यस्मात् प्राणिनः किं मनःप्रभृतिकं किञ्चिन्न तप्यते तन्न अपि तु सर्वमेव शरीरं मनश्च तप्यत इति। तस्माद् देहमानसः सन्तापः सचत्रेव बोध्यः। विस्तरेण निदानस्थाने ज्वरस्त्वेक एव सन्तापलक्षण इत्यत्र व्याख्यातम् ॥१४॥
चक्रपाणिः-ज्वरप्रत्यात्मिकं लिङ्गमित्यादिना आत्मलक्षणमाह। आत्मलिङ्गम् इत्यव्यभिचारिलक्षणम् । इह 'सन्ताप' शब्देन, सामान्येन पीड़ा वक्तव्या, सा च देहविशेषणाभिधानात् तापलक्षणैव भवति, मनसि तु तथा चेन्द्रियेषु देहगुणहीनेषु वैचित्त्यादिरूपा “वैचित्त्यम्" इत्यादिग्रन्थवक्तव्या ज्ञेया। ज्वरप्रभावे सन्तापोऽचिन्त्यकार्यातयोक्तः। इह तु ज्वराव्यभिचारित्वेनेति विशेषः। अन्ये तु, अरुच्यादियुक्तः सन्तापः प्रभावो भवति, अरुच्यादिरहितः स्वात्मलक्षणं भवतीति वर्णयन्ति। सन्तापस्य प्रत्यात्मलक्षणत्वे हेतुमाह-ज्वरेणेत्यादि । 'भूत' शब्देन सर्वप्राणिन उच्यन्ते ; ततश्च ज्वरेण भूतमाविशता न किञ्चिन्मनुष्यादि न तप्यते किन्तु तप्यत एव । ततो ज्वराव्यभिचारितया ज्वरलक्षणमेव तदुपपन्नमिति भावः। अव पक्ष गजादिष्वपि 'कूटपाकलादिशब्दाभिधेयेषु ज्वरेष्वन्तहरूपा वेदना भवतीति ज्ञेयम्। किंवा अत्र देहसन्तापमनःसन्तापौ मिलितौ वा पर्यायेण वा ज्वरात्मलिङ्ग भवेताम्। न तावत् पर्यायेण, तथा हि सति क्वचिज्ज्वरे देहसन्नापः कचिज्ज्वरे मनःसन्ताप एव भवतीति वाच्यम्, ततश्चानयोयभिचारान्नाव्यभिचारिलिङ्गत्वम्। तस्मान्मिलितावेव देहमनःसन्तापावात्मलक्षणं ज्वरस्येति वाच्यम्। एवं व्यवस्थिते कस्मात् सर्वज्वरेषु देहमनस्तापौ भवत इत्याहज्वरेणेत्यादि। ज्वरेण भूतमाविशता न हि किञ्चिच्छरीरं मनो वा न तप्यते, किन्तु तप्यत एव, अतो देहमनस्तापः सर्वज्वरेषूपपन्न इत्यर्थः। अस्मिंश्च पक्षे शारीरमानसज्वरभेदोपदर्शने "शारीरो जायते पूर्वं देहे" इत्यादिना शारीरस्य यद देहमाताश्रयत्वं मानसस्य यन्मनोमाताश्रयत्वं वक्तव्यं तत् सूक्ष्मकालाभिप्रायेण, तस्मिंश्च सूक्ष्मकाले ज्वर उभयतापकोऽप्यनन्तरोत्पद्यमानोभयतापित्वधर्मापेक्षया भवत्येव देहमनस्तापी, यथा प्रथमक्षणोत्पन्न द्रव्यं निर्गुणम्, भनन्तरोत्पद्यमानं सगुणं द्रव्यमुक्तं द्रव्यलक्षणे ॥ १४ ॥
For Private and Personal Use Only