________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४००
चरक-संहिता। (ज्वरचिकित्सितम् आलस्यं नयने सास्त्र जम्भणं गौरवं क्लमः। ज्वलनातपवायवम्बु भक्तिद्वषावनिश्चितौ ॥ अविपाकास्यवैरस्यं हानिश्च बलवर्णयोः। शीलवैवृतमल्पञ्च ज्वरलक्षणमग्रजम् ॥ १२ ॥
केवलं समनस्कञ्च ज्वराधिष्ठानमुच्यते। . शरीरं बलकालस्तु निदाने सम्प्रदर्शितः॥ १३॥
विभागशोऽष्टौ ज्वरस्य कारणानि अव्यवहितपूर्ववर्तीनि यानि पूर्वोक्तानि तान्यत्रापि ज्वरस्य कारणानि नान्यानि सन्ति ॥११॥ ' गङ्गाधरः-अथ पूर्वरूपं ज्वरस्य वक्तुमर्ह सीति प्रश्नोत्तरमाह-आलस्यमित्यादि। यदापि निदानस्थाने मुखवैरस्यमित्यादीनि पूर्वरूपाण्युक्तानि तथाप्यत्र शिष्यव्यवसायार्थ पद्येन पुनः पूर्वरूपाण्युक्तानीति न पुनरुक्तदोषः। उक्तं हि निदाने "पूर्वोक्तो यः पुनः श्लोकैरथः समुपगीयते। ताक्तिव्यवसायाथ द्विरुक्तं तन्न गहनते ॥” इति ॥ १२॥ - गङ्गाधरः-अथ ज्वरस्याधिष्ठानं वक्तुमर्हसीति प्रश्नोत्तरमाह-केवलमित्यादि। केवलं कृत्स्नं समनस्कञ्च शरीरं ज्वराधिष्ठानम् । वातादिदोषजदण्डादाभिघातादिनज्वराणामधिष्ठानं केवलं शरीरम्, कामशोकभयादिजज्वराणामधिष्ठानं समनस्कं शरीरमुच्यते। अन्यबलकाललक्षणं वक्तुमहसीति प्रश्नोत्तरमाह-बलकालश्चेत्यादि। निदानस्थाने बलकालविशेषः पुनर्व्याधीनामृखहोरात्राहारकालविधिविनियतो भवतीत्यनेन संमदर्शितः॥१३॥
दोषा इति शास्त्रसिद्धान्त एव ; 'निदाने' इति पदेनैव पूर्खत्वे लब्धे 'पूर्वोक्तानि' इति पदमिह वक्तव्यज्वरनिदानव्युदासार्थम् ॥ ८-११॥
चक्रपाणिः-यद्यपि निदानेऽपि पूर्वरूपाण्युक्तानि, तथापीह प्रकरणवशाद यानि प्रायः प्रादुर्भवन्नि तानि पश्यन्ते । आलस्यमित्यादि । केवलमिति कृत्स्नम्, तेन वाह्य न्द्रियाणामप्यवरोधः ; भनेन देहमनसी अप्यवश्यं ज्वरेण ताप्येते इत्युक्तम् । बलस्याभिवृद्धिलक्षणस्य ज्वराभ्यागमनलक्षणस्य वा कालो बलकालः, स च निदाने “दिवसान्ते घान्ते जरणान्ते वा ज्वरागमनमभिवृद्धिा" इत्येवम्प्रकारग्रन्थेनोक्तः ।। १२ । १३ ॥
For Private and Personal Use Only