________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३६७
३य अध्यायः
चिकित्सितस्थानम् । पुनर्माहेश्वरं भागं ध्र वंदनः प्रजापतिः। प्रायो न कल्पयामास प्रोच्यमानः सुररपि ॥ पाशुपत्य ऋचो याश्च शैब्यश्चाहुतयश्च याः। यज्ञसिद्धिकुत--स्ताभि_नञ्चैव स इष्टवान् ॥ अथोत्तीर्णव्रतो देवो बुद्धा दक्षव्यतिक्रमम् । रुद्रो रौद्र पुरस्कृत्य भावमात्मविदात्मनः॥ स्पृष्ट्रा ललाटे नयनं दग्या तानसुरान् प्रभुः। बालं क्रोधाग्निसन्दीप्तमसृजत् शत्रुनाशनम् +॥ ततो यज्ञः स विश्वस्तो व्यथिताश्च दिवौकसः । दाहव्यथापरीताश्च भ्रान्ता भूतगणा दिशः॥
त्वात् तपोविघ्नशमीकरणे क्रोधसम्भवेन व्रतभङ्गः स्यात् । ततः परं पुनर्दक्षः प्रजापतियश ध्र वं वेदैः कृतनिश्चितं माहेश्वरं शिवस्य भागंप्रायो न कल्पयामास । पाशुपतीभि भिस्ताः शैवीराहुतीर्न महेश्वराय ददौ।
ननु तदथ देवाः किं किमपि नोचुरित्यत आह-प्रोच्यमान इत्यादि। नन कथं यशसिद्धिः कृता इत्यत आह–पाशुपत्य इत्यादि। यक्षसिद्धिकृतो यशसिद्धिकारिण्य ऋचस्ताभिः शैवीभि गभिराहुतिभिश्च हीनमेव यथा स्यात् तथा। स दक्षः प्रजापतिरिष्टवान् यज्ञ कारितवान् । अथेत्यादि। अथानन्तरं देवो रुद्रो महेश्वरः। आत्मवित् प्रभुः उत्तीर्णव्रतः अक्रोधव्रतादुत्तीर्णः सन् दक्षव्यतिक्रमं पाशुपतीभिऋ ग्भिः शैवाहुतिदानाकरणं बुद्धात्मनः स्वस्य रौद्रमुग्रं भावं पुरस्कृत्य ललाटे नयनं स्पृष्टा तांस्तपोविघ्नकरान् अभिद्रवकारकानसुरांस्तल्ललाटनयनाग्निना दग्ध्वा क्रोधाग्निसन्दीप्तं बालमसृजद वीरभद्रम् । ततस्तस्मादेव देवदेवरुद्रात् क्रोधाग्निसन्दीप्तात्
तपोविनाशनास्तपोविनोपजीविनः, ध्र वमित्यवश्यदेयम्। सवनाशनमिति यज्ञनाशनम् । शैव
+ सतनाशनम् इति च पाठः।
• यज्ञसिद्धिप्रदाः इति वा पाठः ।
३०१
For Private and Personal Use Only