________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३९८
चरक-संहिता। (ज्वरचिकित्सितम् अथेश्वरं देवगणः सह सप्तर्षिभिर्विभुम्।। वाभिः स्तुवन् स्थितो यावच्छेवे भावे शिवः स्थितः ॥८॥ शिवं शिवाय भूतानां स्थितं ज्ञात्वा कृताञ्जलिः। क्रोधाग्निरुक्तवान् देवमहं किं करवाणि ते ॥६॥ तमुवाचेश्वरः क्रोधं ज्वरो लोके भविष्यसि ।
जन्मादौ निधने च त्वमपि चावान्तरेषु च ७ ॥ बालात् स दक्षस्य पाशुपतीभिक गभिः शैवीभिराहुतिभिश्च हीनतया क्रियमाणो यशो विध्वस्तो विनष्टः । दिवौकसश्च सव्वें देवा व्यथिताः। भूतगणाः प्राणिनः दाहव्यथापरीता दिशो भ्रान्ता दिगभ्रान्ताश्च बभूवुः । अथेत्यादि। अथानन्तरं सप्तर्षिभिः सह देवगणस्तमीश्वरं विभु रुद्रम् ऋगभिः पाशुपतीभिस्तावत् स्तुवन् सन् स्थितो यावत् शिवः शैवे भावे शान्तभावे अक्रोधभावे स्थितो बभूव ॥८॥
गङ्गाधरः-शिवमित्यादि। ततो भूतानां शिवाय शैवे भावे स्थितं शिवं शाखा कृताञ्जलिः सन् क्रोधाग्निर्बालो वीरभद्रो देवं शिवमुक्तवानहं ते तव किं करवाणि ॥९॥
गङ्गाधरः-तमित्यादि। तं क्रोधं क्रोधाग्निरूपं बालमीश्वरः शिव उवाच । त्वं लोके ज्वरो भविष्यसि । ननु कस्यामवस्थायां ज्वरोऽहं भवितास्मीत्यत आह-जन्मादावित्यादि। निधने च मरणकालेऽपि अवान्तरेषु च जीवत्कालेऽपि । इति ज्वरस्य प्रवृत्तिरुक्ता। अथ प्रश्नानुक्रमिकबादस्य ज्वरस्य प्रभावम्
इति कल्याणकरे। अपचारान्तरेष्विति ज्वरनिदानसेवासु। अव च सत्ययुगेऽपि जन्ममरणयोः मोहरूपज्वरस्य विद्यमानत्वात् द्वितीययुगेऽपि जन्ममरणयोर्भवनमपि न ज्वरस्यानुपपन्नम्। तेन अव जन्मादौ निधने च व्यवस्थितः ; स इदानीमपचारान्तरेषु भविष्यसीति योजनीयम् । किंवा सत्ययुगे च जन्ममरणयोर्मोहरूपज्वरो निष्कल्मषाणां पुरुषाणां नासीदेवेति मन्तव्यम् । कल्याणकरस्वरूपस्यापि शिवस्य प्राणिपीड़ाकरज्वरविसर्गः प्राणिनामेवाधर्मप्रभावादवश्यमुपभोग्यां
* त्वमपचारान्तरेषु च इति पाठान्तरम्। इतः परमयमधिकः श्लोकः क्वचित्,-"भिया भस्माहरणस्त्रिशिरा नवलोचनः । ज्वालामालाकुलो रौद्रो ह्रस्वजङ्घोदरः क्रमात् ॥” इति ।
For Private and Personal Use Only