________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः ]
चिकित्सितस्थानम् ।
२३६५
क्षयस्तमो ज्वरः पाप्मा मृत्युश्वोक्तोऽयमात्मजः । कम्मभिः क्लिश्यमानानां पञ्चत्वप्रत्ययान्नृणाम् ॥ ६॥
3
नन्वेवमस्तु महारोगाध्यायेऽपि रोगप्रकृतिर्मानसदोषो नोक्तस्ततोऽपि विरुध्यते इति : चेन्न तत्र हि निजशब्देन सत्वशरीरदोषसंग्रहोऽभिप्रेतः । ननु तर्हि त्रिपणीये कथं त्रयो रोगा इति निजागन्तुमानसा इत्युक्तमिति चेन्न, तत्र तथैवोक्त्वा पुनर्विवृतं स्वयमेव तंत्र निजः शरीरदोषसमुत्थ इत्यादिना । तस्यायमभिप्रायः निजपदैन मानसरोगलाभाशङ्कया पुनरुक्तिप्रसङ्गाशङ्कानिरास इति आचार्याणां हीयं रीतिः शिष्याणां विविधविशिष्टज्ञानार्थं विविधवर्त्मना प्रयोगं दर्शयतीति ॥ ४ ॥ ५ ॥
5
गङ्गाधरः- ननु आगन्तुरोगात्पत्तेः पूर्व्वकाले तदागन्तुरोगानुबन्धकदोषकोपका दृष्टपरिणामः कुतो लभ्यते इत्यतो अवरपर्य्यायमाह-क्षय इत्यादि । यदापि ज्वरस्य पर्याया न पृष्टास्तथापि निदानस्थाने तत्र व्याधिरामय इत्यादिपर्यायैर्यावान् व्याधिरुक्तस्तावद्याधिव्यवच्छेदार्थं व्याधिविशेषस्य ज्वरेतिनाम्नः पर्याय उच्यते । कचित् सामान्यवाचिशब्दो विशेषेऽपि वर्त्तते, यथा तृणशब्दस्तुणजातौ तृणविशेषे कत्तु च वर्त्तते । न तु निखिलव्याधेरेव क प्रकृतिखख्यापनार्थ पुनरयं व्याधिपर्याय उक्तः । वेदविद्भिः ज्वरोऽयं व्याधिः क्षयः क्षयकर उक्तः तमोऽयुक्तः पाप्मा चोक्तः मृत्युमृत्युहेतुरुक्तः आत्मजः स्वयंकृतदुष्कम्मे जनिताधर्म्मजला दुक्तः सुतरां पाप्पा पापसम्भवादिति कस्मादुक्त इत्यत आह- कर्म्मभिरित्यादि । नृणां कम्मभिः स्वकृताधरेव क्लिश्यमानानां नानाविधदुःखलक्षणव्याधिभिरेव क्लेशम् ज्वरस्यावेशं दर्शयति । विग्रहश्व ज्वरस्य स्वतन्त्रे वक्तव्य एव, 'ज्वरस्त्रिपादस्त्रिशिराः " इत्यादिनोक्तः ॥ ४ ॥ ५ ॥
चक्रपाणिः - स्वभावरूपां ज्वरप्रकृतिमाह-क्षय इत्यादि । देहक्षयहेतुत्वात् क्षयः, मोह'कत्वात् तमः पापनिर्व्वर्त्तयत्वात् पाप्मा, मृत्युकारणत्वात् मृत्युर्ज्वर एवोच्यते । अल व 'उक्ताः' इति, तथा 'यमात्मकाः' इति बहुवचनमेकस्मिन्नर्थे उबरे क्षयकर्तृत्वादिधर्मभेदविवक्षया ज्ञेयम् । इति यमस्वरूपाः, यमो हि यथा मारकः, तथामी मारका इत्यतो यमात्मका इत्यर्थः ; किंवा यमात्मजा इति पाठः; अत्रापि यमपुसत्वेन पितृसमान क्रियाकर्त्तृत्वमुच्यते । किञ्च क्षयादयः स्वनामप्रसिद्धा यमस्वरूपा भिन्ना एव ज्वरात् इह ज्वरस्य तु यमात्मकत्वाभिधान प्रसङ्गात् तेऽप्युच्यन्ते । अस्मिन् व्याख्याने 'मृत्यु' शब्देन मृत्युसूचकं रिष्टमुच्यते; यतः, मृत्युरेव न मृत्युक्ता यमात्मकाः इति पाठान्तरम् ।
For Private and Personal Use Only