________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३६४
चरक-संहिता। [ ज्वरचिकित्सितम् तस्य प्रकृतिरुदिष्टा दोषाः शारीरमानसाः। ..
देहिनं न हि निर्दोषं ज्वरः समुपसेवते ॥५॥ व्याधेज्वरादेः प्रकृतिरुद्दिष्टा श्लोकस्थाने महारोगाध्याये-द्विविधा पुनः प्रकृतिरेषामागन्तुनिजविभागादिति। तत्र संक्षेपेणोक्ताः पुनः शारीरदोषा मानसदोषाइचेति विस्तरेण प्रकारान्तरेण चेति। अतस्तेनैव ज्वरस्य रोगविशेषस्यापि प्रकृतिरुक्ता या विक्रियमाणा यद् रूपान्तरमापद्यते तस्य सा प्रकृतिरित्यर्थः । ज्वराज्यस्य व्याधिविशेषस्य शारीरदोषा मानसदोषाः प्रकृतिरुद्दिष्टा। द्विविधा पुनः प्रकृतिरेषा।।
ननु आगन्तुनिजविभागादिति यदुक्तं तदनेन विरुध्यते इति चेन, तत्र शारीरव्याध्यभिप्रायेणागन्तुनिजविभागात् इत्युक्त खात् ।
ननु ज्वरस्याप्यागन्तुजलमस्ति तस्य प्रकृतिस्त्वनेन लभ्यते इति चेन्नात्र शारीरपदेन शारीरागन्त्वाद्यभिघातजादेर्मानसपदेन मानसाग़न्तोः कामशोकजादेः संग्रहात् । आगन्तुर्हि व्यथापूचोमो ज्वरो भवति स किञ्चित् कालमागन्तुः केवलो भूला पश्चानिजैदोषैरनुबध्यते, तस्मात् तत् किश्चित्कालमागन्तुजानां कैवल्यं भेदमकिश्चित्करं मला शारीरव स्वीकृतम् । न च यः किञ्चित्कालमागन्तुः केवलो वर्त्तते तत्काले क्रियाकरणे न सम्पदाते चेत् तथापि तदुत्तरकालं दोषसम्बन्धोऽपि न दोषोचिता तत्र क्रिया कार्या स्यात्। परन्तु भूताभिचारादुरचिता क्रिया कार्या तत् कथमकिश्चित्करं तत् कैवल्यं भवतीति वाच्यं, सति ह्य वं भूताभिचारादानुगतलक्षणत्वेऽपि शारीरमानसदोषाणामागन्तौ तत्तदागन्तुजनकादृष्टविशेषेण फलोन्मुखेनागन्तुव्याध्युत्पत्तेः पूर्वमेव प्रकोपितत्व मन्तव्यम्। ननु कस्मात् तन्मन्तव्यमित्यत आह-देहिनं न हीत्यादि। हि यस्मात् निर्दोषं देहिनं ज्वरो व्याधिः कोऽपि न समुपसेवते, तस्मादागन्तोरप्युत्पत्तेः पूर्वमागन्तुहेलदृष्टविशेषण शारीरमानसदोषदुष्टिः अवश्यमन्तव्या भवति। व्यवह्रियमाणोऽपि भवति, यथा आयुषि नित्यगानुबन्ध शब्दरूपौ पर्यायावुक्तौ। 'प्रकृति'शब्देनेह स्वभावः। तथा यत्कारणमयं कायं भवति, तदुच्यते । तत्र प्रत्यासन्नकारणरूपां प्रकृतिमाह-तस्येत्यादि । उद्दिष्टेति संक्षेपाभिहिता। दोषाणां ज्वरप्रकृतित्वे हेतुमाह-देहिनमित्यादि। सर्व्वदोषाव्यभिचारात् ज्वरस्य दोषप्रकृतित्वं सिद्धमिति भावः । 'देहि शब्देन शरीरवान् पुरुषोऽभिनेतः, न केवलम् आत्मा, तस्य निर्विकारत्वात् ; 'समुपसेवते' इति भाषया मूतविशेषरूपस्य
For Private and Personal Use Only