________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
य अध्यायः
चिकित्सितस्थानम् ।
२३६३ ज्वरावस्सृष्टो रक्ष्यश्च यावत्कालं यतो यतः। प्रशान्तः कारणयैश्च पुनरावर्त्तते ज्वरः ॥ याश्चापि पुनरावृत्तं क्रियाः प्रशमयन्ति तम् । जगद्धितार्थं तत् सर्व भगवन् वक्तुमर्हसि ॥२॥ तदग्निवेशस्य वचो निशम्य गुरुरब्रवीत् । ज्वराधिकारे यद वाच्यं तत् सौम्य निखिलं शृणु ॥३॥ ज्वरो विकारो रोगश्च व्याधिरातङ्क एव च । एकार्थनामपर्यायविविध भिधीयते ॥४॥
त्याग कुवतः। तस्य चिह्न प्रशान्तस्य च तस्य चिह्नम्। ज्वरावसृष्टो ज्वरान्मुक्तः पुरुषो यतो यतो भावात् यावत्कालं रक्ष्यः पालयितव्यः। प्रशान्तश्च ज्वरो यैः कारणैः पुनरावर्त्तते। प्रशान्तं पुनरावृत्तं तं ज्वरं याश्च क्रियाः प्रशमयन्ति। गुरुः पुनर्वसुः। सौम्य हे सोमाहे ॥२॥३॥
गङ्गाधरः-ज्वर इत्यादि। सामान्यरोगपर्यायः। तस्य निखिलस्य
प्राणिशतोः । ध्रुवस्येत्यवश्यम्भाविनः। प्रलयोदये मरणे जन्मनि। अत्र च तमोरूपो ज्वरो ज्ञयः । वक्ष्यति हि "ज्वरप्रभावो जन्मादौ निधने च महत्तमः" इति। प्रकृत्यादयः समस्ताध्याय. व्याकरणीया यथावसरं व्याख्येयाः। बलञ्च कालश्चात्मलक्षणन्चेति बलकालात्मलक्षणम् इति द्वन्द्वः। व्यासतो विधिभेदाच्चेति प्रपन्चेन विधितेदात्। यत इति येभ्यो व्यवायादिभ्यो रक्ष्या, द्वितीयो 'यतः'शब्दो येन हेतुना रक्षणीय इत्यर्थः। 'जगद्भितार्थम्' इत्यनेन, यच्च श्रुत्वा जगद्वितं चिकित्साप्रवर्त्तनं करिष्यामीत्यग्निवेशः कारुणिकतां शिष्यगुणेषूपादेयामात्मनो दर्शयति ॥ २॥३॥
चक्रपाणिः-ज्वरो विकार इत्यादिनि शग्रन्थः । ज्वरो विकार इत्यादिप्रश्नग्रन्थसूचितस्यापि पर्यायकथनं वृत्तमेव, तथापि पुनः प्रकरणवशादभिधानमिति न पुनरुक्तिदोष इति ब्रु वते, किंवा ज्वरस्यैवाधिकृतस्यैतत् पर्यायकथनम्। विकारादयश्च यद्यपि सामान्येन रोगाभिधायिनः तथापि प्रकरणाज्ज्वर एव विशिष्टे व्याधौ ते। तस्मिंश्च व्याख्याने ज्वरादिपर्यायाभिधेयरूपा विकृतिः ज्वरो विकारः इत्यादिना उच्यते इति नापि पुनरुक्ति.शङ्का । 'नाम'शब्दः प्रकाशने, तेन एकोऽर्थो नाम ज्वरलक्षणो रोगलक्षणो वा पर्यायैरुच्यत इत्यर्थः। पर्याया एकार्थाभिधायिनो भिन्नजातीयाः शब्दाः, किंवा नामपर्यायैरिति नामरूपैः पर्यायैर्व्यवहियमाणैः पर्यायरित्यर्थः ; यतः प-यो
For Private and Personal Use Only