________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२३६२
Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता |
देहेन्द्रियमनस्तापी सर्व्वरोगाग्रजो बली । ज्वरः प्रधानो रोगाणामुक्तो भगवता पुरा ॥ तस्य प्राणिसपत्नस्य ध्रुवस्य प्रलयोदये । प्रकृतिञ्च प्रवृत्तिञ्च प्रभावं कारणानि च ॥ पूर्व्वरूपमधिष्ठानं बलकालात्मलक्षणम् । व्यासतो विधिभेदञ्च पृथग् भिन्नस्य चाक्रुतिम् ॥ लिङ्गमामस्य जीर्णस्य चौषधं सक्रियाक्रमम् ।
विमुञ्चतः प्रशान्तस्य चिह्न यच्च पृथक् पृथक् ॥
[ ज्वरचिकित्सितम्
ज्वरसन्देहं पय्यपृच्छत् तमाह – देहेन्द्रियत्यादि । ननु भगवता लया पुरा निदानस्थाने ज्वरस्तु खलु महेश्वरकोपप्रभव इत्यादिना प्राणानादत्ते इत्यन्तेन समासतो रोगाणां प्रधानतया देहेन्द्रियमनस्तापितया सर्व्वरोगाग्रजतया बलितया च ज्वरो नाम व्याधिविशेष उक्तः । तस्येत्यादि । तस्य प्रोक्तलक्षणस्य ज्वरस्य प्राणिसपत्नस्य प्राणिशत्रोः प्राणिनां प्रलयोदये मरणे च जन्मनि च ध्रुवस्य निश्चितस्य प्रकृतिं समवायिकारणम्, प्रवृत्तिं प्रथमतः प्रकाशविस्तारम्, प्रभावम् अचिन्त्य क्रियां, कारणानि अभिव्यक्तिहेतून, अधिष्ठानमाश्रयमधिकरणमिति यावत्, बलस्य कालञ्चात्मलक्षणं स्वरूपलक्षणम्, व्यासतो विस्तरतो विधिभेदं प्रकारभेद, पृथक भिन्नस्य विस्तारतः प्रकारैर्भिन्नस्य तस्य ज्वरस्य पृथक प्रकारभेदेन आकृतिं लक्षणम्, आमसत्र तसा लिङ्गं जीर्णसत्र च तसा लिङ्गम्, आमस्य तस्योषधं जीणस्य च तस्याषधम् अत्र जीर्णवचनेन विषमाणाञ्च संग्रहः, क्रियाक्रमं ययानुपूर्व्या येन क्रमेण या क्रिया तं ततः क्रियाक्रमं विमुञ्चतः।
;
For Private and Personal Use Only
चक्रपाणिः - देहेन्द्रियमनस्तापीत्यादि हेतुगर्म ज्वरप्रधानत्वे विशेषणम् केचिद् देहमातापिमोjag दादयः केचिन्मनस्तापिन एवास्मित्वाभिनिवेशादयः केचिदिन्द्रियतापिन एव तिमिरादयः, अन्तु विततापी, वक्ष्यति हि - " ज्वरेणाविशता भूतं न हि किञ्चिन्न तप्यते" तल शरीरतापित्वं सन्तापादिना, मनइन्द्रियतापित्वच्च 'वैश्वित्यम्' इत्यादिना वक्ष्यति सर्व्वरोगाग्रज इति शारीरसर्वरोगाग्रजः; मानसास्तु रोगा ज्वरादेः प्रागवस्थिता एव सत्ययुगादावपि । बलित्वचास्य भूरिविकारकत्वात् । प्रधानत्व देहमनस्तापित्वादिधर्म्मयोगात् । प्राणिसपत्त्रस्येति मारकत्वेन ● विधिभेदाच्च इति पाठान्तरम् ।
;