________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तृतीयोऽध्यायः ।
अथातो ज्वरचिकित्सितं व्याख्यास्यामः, इतिह स्माह भगवानात्रेयः ॥ १ ॥
विज्वरं ज्वरसन्देहं पर्य्यपृच्छत् पुनर्व्वसुम् । विवि शान्तमासीनमग्निवेशः कृताञ्जलिः ॥
Acharya Shri Kailassagarsuri Gyanmandir
स्वस्थचिकित्सितव्याख्यानन्तरमतः स्वस्थस्यौजस्करं
गङ्गाधरः- अथ किञ्चित् किञ्चिदात्तस्य रोगनुत् । द्विविधं भेषजं प्रोक्तम् ; तत्र स्वस्थस्यौजस्करं द्विविधं रसायनं वाजीकरणञ्च तदनेनाध्यायद्वयेनोक्त्वा व्याधितस्य व्याधिहरं भेषजस्य शेषत्वाद्धेतोः प्रथमं ज्वरचिकित्सितं व्याख्यायते - अथात इत्यादि । सर्व्वं पूर्व्ववत् व्याख्येयम् ॥ १ ॥
गङ्गाधर' - आत्रेयस्य ज्वरचिकित्सिते त्विह प्रवचने संगतिं प्रश्नमाहविज्वरमित्यादि । निदानस्थाने ज्वरशब्दस्य व्याधिसामान्यपर्य्यायत्वेनोक्तत्वादत्र विज्वरं शारीरमानसव्याधिभ्यो निम्क्तं पुनर्व्वसु शान्तं सर्व्वतोनिवृत्तं जीवन्मुक्तमित्यर्थः, विविक्त निर्ज्जने आसीनं गुरु कृताञ्जलिः अग्निवेशः शिष्योत्तमो ज्वरसन्देहं ज्वरनाम्नो व्याधिविशेषस्य सन्देहं पर्य्यपृच्छत् । कं
1
ज्वर
पाणिः - स्वस्थोर्ज स्करमभिधाय व्याधिनि धतिकर चिकित्सितवक्तव्यत्वेन सर्व्वरोग प्रधानत्वेन - ज्वरस्यैवादौ चिकित्सितमुच्यते ज्वरस्य च यथा प्राधान्यम्, तथाऽत्रैव वक्ष्यति । चिकित्सिताभिधायकाध्यायो ज्वरचिकित्सितमुच्यते, अभिधानाभिधेययोरभेदोपचारात् एत्रमुत्तराध्यायेष्वपि व्याख्येयम् ॥ १ ॥
;
चक्रपाणिः - विज्वरमिति । 'विज्वर' शब्दो नीरोगोपदर्शकः, यतो 'ज्वरशब्देन चाल गदसामान्ये रोगोऽभिमतः ; नीरोगत्वेनेह रोगप्रशमनपृच्छां श्रुत्वा यतो गुरुर्ब्रवीति – “ज्वरो विकारो रोगश्च” इत्यादि । ज्वरसन्देहमिति ज्वरनिदानोक्तातिरिक्तज्वरधर्म्मविषयं सन्देहम् । विविक्त इत्यादिना एवं गुरवः प्रष्टव्या इति दर्शयति ।
For Private and Personal Use Only
"