________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३८८
चरक संहिता। [वाजीकरणपाद ४ अष्टभ्य एभ्यो हेतुभ्यः शुक्र देहात् प्रसिच्यते। चरतो विश्वरूपस्य रूपं द्रव्यं छ यदुच्यते ॥ २५ ॥ बहलं मधुरं स्निग्धमवित्र गुरु पिच्छिलम् ।
शुक्लच बहु यच्छुक्र फलवत् तदसंशयम् ॥ २६ ॥ । येन नारीषु सामर्थ्य वाजिवलभते नरः।
व्रजेच्चाभ्यधिकं येन वाजीकरणमेव तत् ॥ २७॥
शुक्रं तद्यायामजदूतवायुना द्रवीभूतं कृखा वधः प्रतिक्षेपात् सरखादिगुणः समुदितेभ्य एभ्यो हेतुभ्यो देहात् शुक्रं प्रसिच्यते इति भावः। अपत्यजनकत्वे शुक्रस्य स्वरूपलिङ्गमाह-चरत इत्यादि। शरीरे चरतस्तु विश्वरूपस्य पञ्चभूतोपाधिप्रत्यगात्मन एव यद रूपं या मूत्तिः यद द्रव्यं तद्रव्यमयं शक्रम् । प्रजा हि विश्वमुच्यते चेतनखात् सर्ववेदाधिकरणखात् कर्मपुरुपखात्, घटादिकन्तु न विश्वमचेतनत्वाद वेदानधिकरणत्वादकर्मकत्वाच ॥२५॥
गङ्गाधरः-ननु कुतस्तद् विश्वरूपं प्रजाहेतुत्वात् न हि सर्वे शुक्रं प्रजनयतीत्यत आह-बहलमित्यादि। वहलं सान्द्रम् अविस्रमनामगन्धि शुक्ल श्वेतवर्ण बहु नाल्पं तत् शुक्रमसंशयं फलवदपत्यकरमित्यर्थः ॥२६॥ .. गङ्गाधरः-ननु वाजीकरणं नाम किमर्थमित्यत आह-येनेत्यादि । सामर्थ्य व्यवायार्थम् । अधिकमिति कालतो वारतो नारीतश्च वेगवलतश्चाधिकम्
निर्गमनस्वभावम्। द्र तत्वान्मारुतस्य चेति शुक्रप्रेरकस्य वायोरभिगवणशीलत्वादित्यर्थः । एते च यद्यपि हेतवस्तथापि प्राधान्यात् प्रथमप्रतिपादितस्त्रीपुरुषसंयोगादिरूपहेतूनां समष्टौ नैवामी गणिताः। घरत इति नानामानुषपश्वादिजातिषु भ्रमतः। विश्वरूपस्येत्यात्मनः। तथा ह्यात्मपर्यायेषूक्तम्, –“स विश्वकर्मा स च विश्वरूपः” इति। रूपद्रव्यमिति प्राक्तनकारणम् । एतेन अव्यक्तस्यात्मनो व्यक्तशरीरनिवृत्तौ शुक्रं हेतुरित्युक्तं भवति। शुक्रञ्चे ह प्रकरणागतत्वेन उक्तम् । तेन आर्त्तवमप्यात्मनो रूपद्रव्यं ज्ञ यम् ॥ २५ ॥
चक्रपाणिः-प्रशस्तशुक्रगुणानाह - बहलमित्यादि । वाजीकरण'शब्दनिरुक्तिमाह-येनेत्यादि । वजेचाभ्यधिकमिति पुनःपुनः गच्छेत् । व्यज्यत इति वा पाठः। ततापि भूयोगमनेन नारीषु पुंस्त्वेन व्यज्यते। व्यज्यादिति पाठेऽपि स एवार्थो विद्वद्भिः सुचिन्तनीयः। अनेन
• रूपद्रव्यम् इति पाठान्तरम् ।
For Private and Personal Use Only