________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्य अध्यायः] चिकित्सितस्थानम्। २३८६ मिति यद्यपि पूनमुक्तं वाजीवातिबलो येनेत्यादिना तेनात्र न पौनरुक्त्यम् । अत्र वाजीकरणपदस्य निरुक्त्यभिप्रायेणेदं हि वचनमिति। सुश्रते च वाजीकरण योगा अपरे यथा-तिलमाषविदारीणां शालीनां चूर्णमेव च । पौण्डकेक्षुरसेना मर्दितं सैन्धवान्वितम् । वराहमेदसा युक्तं घृतेनोत्कारिकां पचेत् । तां भक्षयित्वा पुरुषो गच्छेत् तु प्रमदाः शतम् । १। वस्ताण्डसिद्धे पयसि भावयेदसकृत् तिलान् । शिशुमाररसैः पकाः शष्कुलीस्तैस्तिलैः कृताः। यः खादेत् स पुमान् गच्छेत् स्त्रीणां शतमपूर्ववत् । २। पिप्पलीलवणोपेतं वस्ताण्डं क्षीरसपिषा। साधितं भक्षयेद यस्तु स गच्छेत् प्रमदाः शतम् । ३। पिप्पलीमाषशालीनां यवगोधूमयोस्तथा। चर्णभागैः समस्तैस्तु घृते पूपलिकां पचेत् । तां भक्षयित्वा पीसा तु शर्करामधुरं पयः। नरश्चटकवद् गच्छेद दश वारान् निरन्तरम् । ४ । चणं विदााः सुकृतं स्वरसेनैव भावितम् । सर्पिमेधुयुतं लीदा दश स्त्रीरधिगच्छति । ५। एवमामलकं चूर्ण स्वरसेनैव भावितम् । शर्करामधुसर्पिर्भियुतं लीदा पयः पिबेत् । एतेनाशीतिवर्षोऽपि युवेव परिहष्यति ।। पिप्पलीलवणोपेते वस्ताण्डे घृतसाधिते। शिशुमारस्य वा खादेत् ते तु वाजीकरे भृशम् । ७। कुलीरनक्रकूर्माणामण्डान्येवन्तु भक्षयेत् । ८। महिषर्षभवस्तानां पिबेच्छक्राणि वा नरः।९। अश्वत्थफलमूलखक-शुङ्गासिद्धं पयो नरः। पीला सशर्कराक्षौद्रं कुलिङ्ग इव हृष्यति । १०। विदारीमूलकल्कन्तु घृतेन पयसा नरः। उडुम्बरसमं पीखा वृद्धोऽपि तरुणायते । ११ । माषाणां फलमेवन्तु संयुक्तं क्षौद्रसर्पिषा। अवलिह्य पयः पीला तेन वाजीभवेन्नरः । १२ । क्षीरपक्कांस्तु गोधूमानात्मगुप्ताफलैः सह । शीतान् घृतयुतान् खादेत् ततः पश्चात् पयः पिबेत् । १३। नक्रमूषिकमण्डक-चटकाण्डकृतं घृतम्। पादाभ्यङ्गेन कुरुते बलं भूमिन्तु न स्पृशेत् । यावत् स्पृशति नो भूमिं तावद् गच्छेन्निरन्तरम्।१४। स्वयंगुप्ताक्षुरकयोः फलचर्ण सशर्करम्। धारोण्णेन नरः पीखा पयसा न क्षयं व्रजेत् । १५ । उच्चटाचर्णमप्येवं क्षीरेणोत्तममिष्यते । १६ । शतावय्यच्चटामूलं पेयमेवं बलाथिना। स्वयंगुप्ताफलयुक्त माषमपं पिबेन्नरः।१७। गुप्ताफलं गोक्षरकाच्च वीजं तथोच्चटांगोपयसा विपाच्य। खजाहतं शर्करया च युक्तं पीला नरो हृष्यति सवरात्रम् । १८ । माषान् विदारीमपि सोचटाश्च क्षीरे गवां क्षौद्रघृतोपपन्नाम् । पीला नरः शर्करया सुयुक्तां कुलिङ्गवद् हृष्यति सर्व्वरात्रम् । १९ । गृष्टीनां वृद्धवत्सानां माषपणभृतां गवाम् । यत् क्षीरं तत् प्रशंसन्ति बलकामेषु जन्तुषु । क्षीरमांसगणः सर्वः काकोल्यादिश्च पूजितः। वाजीकरणहेतोर्हि तस्मात् तन्तु प्रयोजयेत्। एते
३००
For Private and Personal Use Only