________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्यं अध्यायः ]
चिकित्सितस्थानम् ।
तत् स्त्रीपुरुषसंयोगे चेष्टासंकल्पपीड़नात् । शुक्र प्रच्यवते स्थानाज्जलमार्द्रात् पटादिव ॥ २४ ॥ हर्षात् सरत्वात् सौक्ष्म्याच्च पच्छिल्या गौरादपि ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२३८
अनुप्रवनभावाच्च द्रुतत्वान्मारुतस्य च ॥ वर्त्तते इत्यत आह-संस्पर्शने । देहे संस्पर्शनं त्वक् विशेषत उपस्थं तत्र सर्व्वत्र शुक्रमनुगतं मनश्च त्वक्समवायिव्यापकञ्च भवतीति ॥ २३ ॥
गङ्गाधरः- ननु त्वग्गतं शुक्रं कथं प्रच्यवते मैथुनान्न चान्यत इत्यत आहतदित्यादि । तत् त्वग्गतं शुक्रं स्त्रीपुरुषसंयोगे सति तयोर्द्वयोश्चेष्टया शरीरदोलायितत्वादिव्यापारेण सङ्कल्पेन मनसोऽप्यत्युत्साहमणवासनादिकर्मण: पीड़नात शुक्राधिष्ठानस्पर्शनात् देहस्थत्व विशेषतोऽयुपस्थं योनिशेफसी तेषां पीड़नात् निपीड़नात् स्थानात् स्वस्थानात् शुक्रं प्रच्यवते । आर्द्रात पटाज्जलमिव । यथार्द्रवस्त्रस्थं जलं पीड़ककरादिव्यापारेण वस्त्रस्य पीड़नात् तद्वत्राज्जलं प्रच्यवते तथेत्यर्थः । सुश्रुतेऽप्युक्तम् । " तत्र स्त्रीपुंसयोः संयोगे तेजः शरीराद् वायुरुदीरयति । ततः तदुदीर्णं तेजोऽनिलसन्निपाताच्छुक्रं च्युतं योनिमभिप्रपद्यते " इति ॥ २४ ॥
गाधरः- ननु शरीरचेष्टामनः सङ्कल्पाभ्यां पीड़नात् धावन्तरं न कथं प्रच्यवते इत्यत आह- हर्षादित्यादि । हर्षादिति मनसो रत्युद्दीपननिमित्तमोदात् अनुलवनं प्रचलनम्, तदनुलवनभावाच्चेति हर्षस्य मनः स्थितखात् सरलादयो द्रुतवान्ताः षड्धर्माः शुक्रस्य नैसर्गिकाः । मारुतस्य च द्रतत्वादित्यन्वयाः स्त्रीपुरुवसंयोगे शरीरचेष्टामनः संकल्पपाभ्यां मारुतस्य द्रुतत्वात् द्रुतगमनशीलत्वात्: संस्पर्शन योनि लिङ्गसंघर्षणकुचोपमर्द्दनचुम्बनादितः संहर्षात् सरत्वादिपड़ गुणः इत्यादि । इक्ष्वादिदृष्टान्तत्रयेण अनतिप्रयत्नाल्पप्रयत्न महाप्रयत्नप्र वाह्यशुक्रान् पुरुषान् यथाक्रमं दर्श यति । संस्पर्शन इति संस्पर्शनवति, तेन केशादौ संस्पर्शनाव्याप्तेः शुक्रमपि नास्तीतिः दर्शयति । स्त्रीपुरुषसंयोगो मिश्रीभावः । चेष्टा व्यवायचेष्टा, सङ्कल्पो योषिदनुरागः । पीड़नं नारीपुरुषयोः परस्परसंमूर्च्छनम् । अत्र च नारीपुरुषसंयोगः प्रधानं कारणम् । तत्संहकारीणि चेष्टादीनि । आर्द्र पटदृष्टान्तेनाश्रयानुपघातेन शुक्रस्रवणं दर्शयति ॥ २३ ॥ २४ ॥
चक्रपाणि:- अपरमपि शुक्रप्रवृत्तिहेतुमाह- हर्षादित्यादि । हर्षः सङ्कल्पपूर्वक शुक्रोद्रो जोच्छ्रायादिकारीच्छा, तर्षो वनिताभिलाषः । सरत्वमस्थैर्य्यम् । अणुप्रवणभावो ऽणुत्वे सति वहि
हर्षात् तर्षात् सरत्वात् इति कुतश्चित् पठ्यते ।
+ अणुप्रवणभावाच्च ेति वा पाठः ।