________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७८
११ अध्यायः
सिद्धिस्थानम् । अथाभिगम्याथमखण्डितं धिया गजोष्टगोऽश्वाव्यजवस्तिकर्म।। अपृच्छदेनं स तु वस्तिमब्रवीद विधिश्च तस्याह पुनः प्रचोदितः॥८ अजाविके सौम्य गजोष्ट्रयोर्वा गवाश्वयोर्वस्तिमुशन्ति माहिषम् । मजाविकादत्तसुवस्तिमुत्तरं वदन्ति वस्तिं विपरीतरूपम् ॥ सुवस्तिमष्टादशषोड़शाङ्गुलं तथैव नेत्रश्च दशाङ्गलं क्रमात् । गजोष्ट्रगोऽश्वाव्यजवस्तिसन्धौ चतुर्थर्भागे कृतकर्णिकं वदेत् ॥६॥ प्रस्थस्त्वजाव्योहि निरूहमात्रा गवादिषु द्वित्रिगुणो यथाबलम् । निरूह उष्ट्रस्य तथाढकद्वयं गजस्य वृद्धिस्त्वनुवासनेऽष्टमः ॥१०॥
गङ्गाधरः-अथेत्यादि । गजादिवस्तिकम्मै अपृच्छत् । एनं गुरुम्, स गुरुः । अजेत्यादि। अजाविके अजे चाविके च गजे चोष्ट्र च गवि चाश्वे च वस्तिं वस्तिकम् उशन्ति माहिषश्च महिषस्यापि वस्तिकम्मे उशन्ति, त एव विपरीतरूपं पायुपथेन देयवस्तिविपरीतं मूत्रापत्यपथेन देयरूपं वस्तिमुत्तरवस्ति मुवस्तिं नाम वदन्ति । तस्य नेत्रपरिमागमाह-सुवस्तिमित्यादि । अष्टादशाङ्गलं पोडशाडलं दशाङ्गुलश्च क्रमान्नेत्रम्। गजोष्ट्रयोरष्टादशाङ्गुलं गवाश्वयोः षोड़शाडलं अव्यनयोर्दशाहलं तस्य च चतुर्थभागे कृतकर्णिकं गवादिषस्तिसन्धो वदेत् ॥८॥९॥ . गङ्गाधरः-तत्र मात्रामाह--प्रस्थ इत्यादि। अनाव्योर्निरूहदाने प्रस्थो मात्रा। गवाश्वयोद्वि गुणप्रस्थो मात्रा, गजोष्ट्रयोस्त्रिगुणप्रस्थो मात्रा। तथा प्रकोपं प्रजति। यस्तु प्रदेशान्तरे वातप्रकोपः स तन्मूलेनेति भावः। तत्पशान्तिमुपयाति पका. शयस्थवातमूलप्रशमा वस्तिना कृतात् तन्मूलानुबन्धाः शेषस्थानगतविकाराः प्रशाम्यन्ति । एतच वनस्पतिमूलच्छेदादिदृष्टान्तेन प्राक् प्रतिपादितमेव। एतेन वस्तिना मूलविजयाद् देशान्तर्गततन्मूलविकारजयो यः क्रियते, स उक्तः। यत् तु वस्तेर्वोर्यमापादमस्तकं प्रसरति तच्च वातं हन्तीति मागुतमेव ज्ञेयम्। यत् तु वीर्यवदिति कर्मविशेषणं तेन कर्म रोगनुदिति रोगहरणे श्रष्ठ चिन्तिसितमित्यर्थः । वस्तिमब्रवीदिति गजादीनां रोगहरणे श्रेष्ठं वस्तिमेवाब्रवीत् । तदनन्तरं तस्य बस्तेविधि पुनः शिष्येण पृष्टः प्राह-- मजाविकेत्यादि। जरद्वो वृद्धवृषः। तदपायचिन्तका इति गजादिवस्तिसाधने दत्तचित्तकाः। क्रमादिति यथाक्रमम् । गजादिषु नेवप्रमाणं चतुर्थभागोपः मयमिति नेश चतुर्थभागप्रवेशकम् । गवादिष्विति गोप्रकारेषु, गोमहिषाश्वानां ग्रहणाद् बहुवचनं
४७५
For Private and Personal Use Only