________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७६०
[ फलमावासिद्धिः
चरक संहिता | कलिङ्गकुष्ठे मधुकं सपिप्पली वचा शताह्वा मदनं रसाञ्जनम् । हितानि सव्र्व्वेषु गुड़ः ससैन्धवो द्विपञ्चमूलस्य विकल्पमा लियम् ॥ गजेऽधिकोऽश्वत्थवाश्वकर्णजाः सखादिरप्रग्रहशालतालजाः । तथा च उष्ट्र धवशि पाटला मधूकसाराः सनिकुम्भचिकाः ॥ पलाशभूतीकसुराह्वरोहिणी कषाय उक्तस्त्वधिको गवां हितः । पलाशदन्तीसुरदारुकतृण-द्रवन्त्य उक्तास्तुरगस्य चाधिकाः ॥ खरोष्ट्रयोः पीलुकरोरखादिराः शम्पाकविल्वादिगणस्य च च्छदाः । श्रजाविकानां त्रिफलापरूषकं कपित्थकर्कन्धुसविल्व कोलजम् ॥११॥ अथाग्निवेशः सततोऽन्तरान्तरा हितञ्च पप्रच्छ गुरुस्तदाह च । सातुराः श्रोत्रियराजसेवकास्तथैव वेश्याः सह पण्यजीविभिः ॥
यथावळं निरूह उष्ट्रस्यादकद्वयम्, तथा गजस्य यथाबलं दृद्धिः । अनुवासने निरूहस्याष्टमो भागो मात्रा ॥ १० ॥
गङ्गाधरः- तत्र द्रव्यमाह - कलिङ्गेत्यादि । कलिङ्गादीनि प्रत्येकं काथयिता तत्र रसाञ्जन जलेन गोलयित्वा तेषु सर्व्वेषु गुड्सैन्धवश्च दत्त्वा मथिला निरूढं कुर्य्यात् । द्विपञ्चमूलस्य दशमूलस्य निरूहे चयं कल्पना । सर्व्वेषां निरूहमुक्तत्वा विशेषमाह – गज इत्यादि । गजेऽधिकोऽश्वत्थादीनां काथः । अश्वकर्णः शालः । खदिरादीनां काथश्च । तथा चोष्टु धवादिकाथः । पलाशेत्यादि । पलाशादिकषायो गवां हितः । पलाशदन्त्यादिकषायोऽश्वस्य हितः । खरेत्यादि । खरोष्ट्रयोः पील्वादिकाथः, शम्पाकादिच्छदाच । अजाविकानां त्रिफलादिज काथम् ॥ ११ ॥
।
गङ्गाधरः - अथात्र प्रश्नः । अन्तरान्तराऽग्निवेशस्ततो हितं गुरु पप्रच्छ । साधु । गजस्य वृद्धिरिति द्वयादकद्वैगुण्येन द्रोण इत्यर्थः । अनुवासनेऽष्टम इति यथोक्ताजादि: मिरूहमानादुजादीनामनुवासनेऽष्टमः स्नेह भागो देयः ॥ ६-१० ॥
चक्रपाणिः - विकल्पना स्वियमिति विशेषकल्पना गजेऽधिका वक्ष्यमाणा । तालजाः वफलम् । तथैवेत्यादिना गवां हितमुच्यते ॥ ११ ॥
चक्रपाणिः वस्तिविषयाणि मतान्तराणि दर्शयन्नाह - भथाग्निवेशइत्यादि । हितओं ति
For Private and Personal Use Only