________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशोऽध्यायः। अथातः फलमात्रासिद्धिं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥१॥ भगवन्तमुदारसत्त्वधी-श्रुतविज्ञानसमृद्धमत्रिजम् । फलवस्तिवरत्वनिश्चये सविवादा मुनयोऽभ्युपागमन् ॥ भृगुकौशिककाप्यशौनकाः सपुलस्त्यासितगौतमादयः। कतमत् प्रवरं फलादिषु स्मृतमास्थापनयोजनाखिति ॥२॥ कफपित्तहरं वरं फलेष्वथ जीमूतकमाह शौनकः । मृदुवीर्य्यतया भिनत्ति तत् शकृदित्याह नृपोऽथ वामकः॥ कटुतुम्बीफलमन्यथोत्तमं वमने दोषसमीरणं तदन्यत् । तदवृष्यमसौम्यतीक्ष्णता-कटुरूक्षादिति गौतमोऽब्रवीत ॥ गङ्गाधरः-अथाध्यायोदशक्रमात् फलमात्रासिद्धिमाह-अथात इत्यादि। पूर्ववत् सव्वं व्याख्येयम् ॥१॥
गङ्गाधरः-भगवन्तमित्यादि। उदारसत्वादिभिः समृद्धम्। भृग्वादयो मुनयोऽभ्युपगमन् । इतीत्यन्तम् ॥२॥
चक्रपाणिः-पूर्वसिद्धिषु फलानि आचार्येण प्रयोगेण विहितानि, तेन तेषां फलादीनां गुणादीनामवधारणार्थ तथा अनुक्तवस्त्युपदर्शनार्थं फलमातासिद्रिरुच्यते। वस्खिविधानकथन यद्यपि अप्रस्तुतं तथापि यौगिकतया वस्तेरेव माता प्रतिपाद्यते न, फलादौ तथा गुणादौ पतिमालायाः प्रतिपादिका सिद्धिः फलमानासिद्धिः। फलादीनां वस्तियोगे गुणान् प्रतिपादयितुं पूर्ववृत्तमितिहासमाह-भगवन्तमित्यादि । इतिहासश्च संहितायां धर्म्यतया अन्थे पूज्यतोपदर्शनार्थम् । फलादीनां वस्तौ वरत्वं फल वस्तिवरत्वं तस्मिन्निश्चये अवधारणे । फलादिष्विति मदनजीमूतकादिष ॥ १॥२॥
चक्रपाणि:-कल्पे जीमूतकस्य यद्यपि पित्तदोषहरत्वमुक्त तथापि इह वचनात् कफपित्तहरस्वमस्य प्रामाम्याश्रीयते। मृर्वार्यतया भिनत्तीत्यादिना अस्यर्थ भिनत्ति । दोषसमीरणमिति
For Private and Personal Use Only