________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१० मायायः]
सिद्धिस्थानम् । फलजीमूतकेयाकु-धामार्गाचोड़वत्सकाः। श्यामाकस्त्रिवृता चैव तथा दन्ती द्रवन्त्यपि ॥ प्रकीर्ध्या चोदकीया॑ च चक्रिणी नलिनी तथा। सप्तला शकिनी लोध्र फलं कम्पिल्लकस्य च ॥ चत्वारो मूत्रसिद्धास्ते पक्काशयविशोधकाः। व्यस्तैरपि समस्तैश्च चतुर्योगा उदाहृताः ॥ १६ ॥ काकोली क्षीरकाकोली मुद्रपर्णी शतावरी। मधुकञ्च विदारी च शृङ्गाटककशेरुकम् ॥ आत्मगुप्ताफलं माषाः सगोमूत्रा यवास्तथा। जागलानूपजं मांसमित्येते शुक्रमांसदाः॥१७॥ जीवन्ती चाग्निमन्थश्च धातकीपुष्पवत्सको। प्रग्रहं खदिरं कुष्ठं शमी पिण्डीतको यवाः । प्रियङ्गुरक्तमूली च तरुणी स्वर्णयूथिका।
वटाद्याः किंशुकं लोध्रमिति सांग्राहिका मताः ॥१८॥ गाधरः--फलेत्यादि । फलं मदनफलं धामार्गवः घोषकः आशोड़ा पील, फलादिवत्सकान्तानां काथ एकः। श्यामाको श्याममूला त्रित, श्यामाकादिर द्रवन्त्यन्तानां काथो द्वितीयः। प्रकीयोदिनलिन्यन्तानां काथस्तृतीयः। सालादिकमिल्लकान्ताचां काथश्चतुर्थः। एते चखारो मूत्रसिद्धा गोमूत्रपकार कावा पकाशयशोधकाः॥१६॥ : गाधर:-काकोलीत्यादि। काकोल्यादिशतावर्यन्वानां काथ एक मधुकादिकशेरुकान्तानां काथो द्वितीयः। आत्मगुप्तादियवान्तानां काथस्तृतीयः । जागलानूपजमांसकाथश्चतुर्थ इत्येते चखारो वस्तयः शुक्रमांसदाः ॥१७॥ - गङ्गाधरः--जीवन्तीत्यादि। . जीवन्त्यादिवत्सकान्तानां काथ एकः। पग्रहादियवान्तानां काथो द्वितीयः । प्रियङ्कादिस्वर्णयूथिकान्तानां काथस्तृतीयः। स्वेदः कृतवेधनः । द्रवन्ती दन्तीभेदः। प्रकीर्य्या करतः। नीलिनी नीलसमाहा, (नीलबुहा) नीलाञ्जलिकेत्यान्ये। एते शुक्रमांसदा इति अत्रैत इति चत्वारः पूर्वोक्ताः। पिण्डीतको
७७७
For Private and Personal Use Only