________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७८०
चरक-संहिता। [ वस्तिसिद्धि विल्वोऽग्निमन्थः श्योनाकः काश्मयः पाटलिस्तथा शालपर्णी पृश्नीपर्णी वृहत्यौ वर्धमानकः॥ यवाः कुलस्थाः कोलास्थि स्थिरा चेति त्रयोऽनिले। शस्यन्ते च चतुःस्नेहाः पिशितस्य रसान्विताः ॥ १३॥ नलव लवानीर-शतपत्राणि शैवलम् । मञ्जिष्ठा मधुकानन्ता पयस्या मधुकस्तथा ॥ चन्दनं पद्मकोशीरं पैत्तिके तु गदे त्रयः। सशराघृतक्षौद्र-सौवीरा वस्तयो हिताः॥ १४ ॥ अर्कस्तथैव चालर्क एकाष्ठीला पुमर्नवा। हरिद्रा त्रिफला मुस्तं पीतदारु कुटन्नटम् ॥ पिप्पल्यश्चित्रकश्चेति त्रयस्तै कफरोगिणाम् । सक्षारक्षौद्रगोमुत्रा नातिस्नेहान्विता हिताः ॥ १५ ॥ गङ्गाधरः-विल्व इत्यादि। विल्वादिपञ्चमूलकाथ एको वस्तिः। शाल. पादिवढेमानकान्तानां काथ एको वस्तिः। यवादिस्थिरान्तानां काय एक इति त्रयोऽनिले वस्तयः । चतुःस्नेहा पिशितरसान्विताः शस्यन्ते ॥१३॥
गङ्गाधरः-नलत्यादि। नलमूलम् । वजुलस्तिनिशक्षः। वानीरो वेतसवृक्षः। नलादीनां शैवलान्तानां काय एकः। मञ्जिष्ठादिमधुकान्तानां कायो द्वितीयः। मधुकद्वयमिह ग्रामं पुनः पाठात्। चन्दनादीनां त्रयाणां काय. स्तृतीयः। एते त्रयो वस्तयः सशकेरादयः पत्तिके गदे हिताः॥१४॥: : गङ्गाधरः-अर्क इत्यादि। अकेः श्वेत्तः, अलको रक्तार्कः, एकाष्ठीला वकपुष्पष्टक्षः। पुनर्नवान्तानां काथ एकः। कुटनटः श्योनाकः, हरिद्रादिकुटनदान्तानां काथो द्वितीयः। पिप्पलीचित्रकयोः काथस्तृतीय इति त्रयो बस्तयः सक्षारक्षौद्रगोमूत्राः किञ्चित्स्नेहान्विताः कफरोगिणां हिताः ॥१५॥ र बहुश इत्यर्थः। वीर्यसमै गरिति अन्योऽन्यानुपहतसामध्यव्यभागः। वर्दमानक एरण्डः। पिशितस्य रसा इति प्रक्षिप्तमांसरसाः। वजुलो वेतसः। वाणीरस्तभेदः। सुङ्गः पुनागः। अलर्को मन्दारः। एकाष्ठीला पाठा। कुटन्नटं कैवर्तमुस्तकम्, अन्ये तगरमाहुः ।
For Private and Personal Use Only