________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०म अध्याय:]
सिद्धिस्थानम् । सत्यपि दोषहरत्वे कटुतीक्ष्णोष्णादिभेषजादानात्। दुःखोदारोत्क्लेशाहृद्यत्वकोष्ठरुजा विरेके स्युः ॥ अविरेच्यौ शिशुवृद्धौ तावच्चाप्राप्तहीनधातुबलो। आस्थापनमेव तयोः सर्वार्थकृदुत्तमं कर्म। बलवर्णहर्षमाईव-गात्रस्नेहं नृणां दधात्याशु ॥ ४॥ अनुवासनं निरूहः सोत्तरवस्तिश्च स त्रिविधः। . शाखावाता नां सङ्कचितस्तब्धभमसन्धीनाम् । विट्सगाध्मानारुचि-परिकर्तिरुगादिषु च शस्तः॥५॥ उष्णा नां शीतान् शीता नाश्च तथा सुखोष्णान् ।
तदयोगोषधयुक्तान् वस्तान् संतयं विधि नियुञ्जयात् ॥६॥ गङ्गाधरः-सत्यपीत्यादि। कटुतीक्ष्णादिभेषजादानाद दोषहरत्वे सत्यपि दुःखोद्गारादयो विरेके (सदुःखोद्गारा तोर्विरेके कथमुत्क्लेशकोष्ठरुजाः ) स्युः। अविरेच्यावित्यादि । अविरेच्यो शिशुद्धौ, कस्मात् १ तावदप्राप्तहीनधातुबलौ। शिशरमाप्तधातुषलो वृद्धो हीनधातुबल इति। आस्थापनन्तु तयोः शिशुवृद्धयोः सार्थकदुत्तमं कर्म सव्वेषां नृणामाशु बलादीन्यादधाति ॥४॥
गङ्गाधरः-स वस्तिस्त्रिविकोऽनुवासनं निरूह उत्तरवस्तिश्च शाखा. वातार्तादिषु शस्तः। उष्णा नां शीतानित्येवमादीन वस्तीन संतक्ये विधि नियुञ्जयात् ॥५॥६॥
चक्रपाणिः-वस्त्यपेक्षया शोधनान्तरे दोषहरणदोषमाह-सत्यपीत्यादि। कटुकादिभेषजविरेकदानात् दुःखलोद्वारश्चाऽहृयत्वा कोष्ठावरोधश्चेते सर्वे भवन्ति। तत्र दुःखं कटुकादिना रसेनोद्वेयादेव भवति । एते दोषा वस्तौ न सम्भवन्तीति भावः। विरेकशब्देन वमनविरेकावेव प्रायो, किंवा वमनं वस्तिना सममत्यन्तभिन्नविषयतया शेदाहृतम्, विरेकस्त पक्वाशयस्थेऽपि वस्तिविषये भवतीति कृत्वा विरेकमेव प्रति वस्तेः प्राधान्यमिहोच्यते। अविरेकादिविषये वस्ते. बौगिकसया प्राधान्यमाह-अविरेच्यावित्यादि। सावित्यादौ यथासङ्घय व्याख्येयम्-अप्राप्तचातुरमातवलय बालः, प्रहीणधातुः प्रहीणबलश्च वृद्धः, एवम्भूतत्वाच्चाविरेच्यावेतौ। सर्वार्थकृदिति वातादिदोषहरणवृहणादिकृत् ॥ ४॥ .. चक्रपाणिः-वस्तेभदानाह--अनुवासनमित्यादि। तयोग्यौषधयुकानिति उष्णातिहरेण
For Private and Personal Use Only