________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमोऽध्यायः। ... अथातो वस्तिसिद्धिं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥१॥ सिद्धानां वस्तीनां शस्तानां तेषु तेषु रोगेष। शृण्वग्निवेश गदतः सिद्धिं सिद्धिप्रदां भिषजाम् ॥२॥ बलदोषकालरोगप्रकृतीः प्रविभज्य योजितः सम्यक् । स्वैः खैरौषधवगैस्तांस्तान् रोगान् नियच्छति ॥ कान्यद् वस्तिसमं न विद्यते शीघ्रसुखविशोधित्वात् ।
आश्वपतर्पणतर्पणयोगाच्च निरत्ययत्वाच्च ॥३॥ गाधर:--अथाध्यायोद्देशक्रमाद् वस्तिसिद्धिमाह-अथात इत्यादि । सर्च पूवैवद व्याख्येयम्॥१॥..
गङ्गाधरः-सिद्धानामित्यादि। गदतो मत्तः शृणु ॥२॥
गङ्गाधरः बलत्यादि। बलादीन् प्रविभज्य सम्यग योजितो वस्तिः। स्वैः स्वरौषधवर्गनिष्पन्नस्तांस्तान् रोगान् नियच्छति। कम्मत्यादि। कस्मात् ? वस्तिसममन्यत् कम्मे नास्ति, शीघ्रमुखविशोधिखात्, अपतपणतपणयोगाच आशु निरत्ययवाच ॥३॥
...चक्रपाणि:-सिमर्मीयायां बहुरोगप्रतिपादनाढ बहुरोगहितवस्तिप्रतिपादनार्थ वस्तिसिद्धि. रुच्यते। अत्रैव वस्तिशब्देन सिद्धवस्तयो वक्ष्यमाणा अभिप्रेताः। सिद्धानामिति प्रसिद्धफलानाम् । तेषु तेष्विति वक्ष्यमाणवातगदादिषु। सिद्धिमिति वस्तिनिष्पादकम्, किंवा वस्त्यभिधायक
प्रन्थम् ॥११॥
चक्रपाणिः-वस्तरितिकर्तव्यता गुणांश्च प्रतिपादनीयवरत्यङ्गमूतानाह-बलदोषेत्यादि। भन्न च बलादौ यथाप्रधानमिह गृहीते सर्वपरीक्षावरोधो व्याख्येयः । “परीक्षा दोषौषध" इत्यादिनोतो. ऽप्यर्थः पुनः प्रकरणवशादुच्यते। स्वैः स्वरौषधवगैरिति यथाव्याधिप्रतिपादितैरौषधः। स्वान खानिति तत्तद्वस्तिविधेयौषधस्य प्रशमनीयान् । आश्वपतर्पणतर्पणयोगादिति अपतर्पणा प्रयुक्तो वस्तिरन्यापतर्पणमेषजभ्यः शीघ्रमपतर्पण करोति । एवं तर्पकद्रव्ययुक्तोऽपि वस्तिः शीघ्रमितरतर्पणापेक्षया तर्पणं करोति ॥३॥ .
For Private and Personal Use Only