________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७६०
चरक-संहिता। सिमर्मीया सिद्धिः वस्तिकुण्डलमाहुस्तं घोरं शस्त्रविषोपमम् । पवनप्रबलं प्रायो दुर्निवारमबुद्धिभिः॥ तस्मिन् पित्तावृते दाहः शूलं मूत्रविवर्णता। .. श्लेष्मणा चावृते शोथः स्निग्धं मूत्रं सितं धनम् ॥ श्लेष्मरुद्धविलो वस्तिः पित्तोदीणों न सिध्यति । अविभ्रान्तविलः साध्यो न च यः कुण्डलीकृतः॥ स्याद् वस्तौ कुण्डलोभूते तृण्मोहः श्वास एव च ॥२७॥ ® दोषवेगमवेक्ष्यैतान् मूत्रकृच्छ्रहरैर्जयेत्। वस्तिमुत्तरवस्तिं वा सर्वेषामेव दापयेत् ॥ २८॥
विन्दु विन्दुमूत्रस्य स्रवति । ततः शिश्न पाणिना पीड़ितश्चेत् तदा संस्तम्भा. घर्तिमान् धारां सवेत, तं वस्तिकुण्डलमाहुः। मारकखाच्छस्त्रविषोपमम् । तद वस्तिकुण्डलं पवनप्रबलमबुद्धिभिः प्रायो दुनिवारम् । तस्मिन् वस्तो पित्ताहते दाहादि स्यात् । श्लेष्मणाहते शोधादि स्यात् । तस्यासाध्यतामाह-श्लेष्मणा रुद्धं विलं वस्तिमुखच्छिद्रं यस्य स पित्तोदीणेश्चेत् तदा न सिध्यति। अविभ्रान्तविलः श्लेष्मादिविभ्रमहीनविलो वस्तिः साध्यः स्याद, यश्च वस्तिः कुण्डलीकृतो न भवति स च साध्यः स्यात्। कुण्डलीभावे लक्षणमाहस्याद वस्तावित्यादि। वस्तौ कुण्डलीमूते खड़ादयः स्युः ॥२७॥
गङ्गाधरः-एषां चिकित्सामाह-दोषवेगमित्यादि। दोषवेगमवेक्ष्य वद्य एतांस्त्रयोदशमूत्रदोषान् मूत्रकृच्छहररोषधजयेत् । सर्वेषां त्रयोदशानां मूत्रदोषाणां वस्तिं दापयेदुत्तरवस्तिश्च दापयेत् । इति ॥२८॥ . . मुखा। पीड़ित इति हस्तादिभिः । श्लेष्मरुद्धविलो वस्तिन सिध्यति, तथा पित्तोदीर्णश्च न सिध्यति । अविनान्तविल इति भरुद्धद्वारः । कुण्डलीकृत इति वलीकृतः। वत्त लीकृत व लक्षणान्याहसात वस्तावित्यादि ॥ १९-२७॥.
चक्रपाणिः-चिकित्सामाह-दोषाधिक्यमित्यादि। .. मूत्रहरैः प्रयोगैर्दोषाधिक्यमवेक्ष्म प्रयुजमेदित्यर्थः ॥ २८॥
दोषाधिक्यमपेक्ष्यतानिति चक्रसम्मतः पाठः ।
For Private and Personal Use Only